Hayanaratna · by Balabhadra
Chapter 8 · Month Chart and Monthly Results
मासप्रवेशादिविचाराध्यायः
अथवा योगे युतिस्स्यात्क्षययोस्स्वयोर्वा धनर्णयोरंतरमेव योग इति बीजोक्तमार्गेण त्रयाणामैक्यज्ञातं त्र्यैक्यं०१ । ५३ ऋणशेषत्वादर्क ऋणसंज्ञकं जातम् ॥
Or, by the way told in algebra. In adding, the sum of two losses, or of two gains, is the total. Of a gain and a loss, the difference alone is the total. In this way the traikya (the sum of three corrections), the total of the three, is found: 0.1.53. The remainder is minus, so it is called minus for the Sun.
Simple meaning: Worked example: adding the three corrections as in algebra gives a traikya of 0.1.53, minus.
अथ सुगमोपायेन त्रैक्यानयनम् ॥ तत्र स्पष्टोर्कः०२ । २२ । ५०।१९सायनः०३ । ०९।३५।३७ अस्य भुक्तांशाः० ९।३५।३७कर्कोदयेन ३४२ गुणिताः षष्ट्योपर्युपरियुताः३२८१त्रिंशद्भक्ता लब्धं रवेर्भुक्तं पलात्मकम् १०९॥अथ मेषादिमिथुनपर्यन्तराशीनामुदयपलैक्येन ७७६ युतं ८८५ षष्टिभक्तं जातं रवेर्मेषाद्भुक्तं घट्यादि १४ । ४५ ॥ अथ मध्यमार्कः ०२ । २३ । ०३ । ३७ सायनः ०३ । ०९ । ४८ । ५५ अस्यांशाः ९९ । ४८ । ५५ षड्भक्ता लब्धं घट्यादि १६ । ३८ । उभयोरन्तरम् ० १ । ५३ जातं त्रैक्यं पूर्वागततुल्यम् ॥
Finding the traikya the easy way: the true Sun and the mean Sun are each turned into time since Aries. The gap is 1.53, the same as before.
अथ मध्यमार्कघटितो रवेर्भुक्तघटिकाहीना अतस्त्रैक्यमृणात्मकज्ञातम् ॥ अथ मध्यमार्के ०२ । २३ । ०३ । ३७ त्र्यैक्यं १ । ५३ ऋणं जातस्त्रैक्यसंस्कृतो मध्यमार्कः २ । २३ । १ । ४५ ॥ अस्मादानीतं पूर्ववन्मंदफलं ० । १३ । १३ त्रैक्यसंस्कृतमध्यमार्के २ । २३ । १ । ४५ ऋणं जातस्त्रैक्यसंस्कृतः स्पष्टोर्कः सूक्ष्मतरः २ । २२ । ४८ । ३२ ॥
The traikya 1.53 is taken away from the mean Sun. After the manda correction the true Sun is 2.22.48.32, a finer value.
ततश्शके १५७० आषाढसुदि १२ गुरौ उदयाद्गतघटीपलेषु ५१ । १५ श्रीमतां महाप्रभूणां सौरमानेन जन्मतस्त्रयस्त्रिंशत्तमोब्द ३३ प्रवेशो जातः ॥
The 33rd year entry of the example: Shaka 1570, Ashadha bright 12th, Thursday, 51.15 ghatika after sunrise.