Hayanaratna · by Balabhadra
Chapter 3 · The Sixteen Yogas
षोडशयोगाध्यायः
अन्येपुनराहुः ॥ राशिचक्रे शीघ्रग्रहस्याग्रे यदा मन्दग्रहो भवति तदेत्थशालयोगो नेतरथा ॥
But others say: ithasala (planets moving toward an exact aspect) forms only in one case. The slow planet must be ahead of the fast planet in the circle of signs. It does not form otherwise.
Simple meaning: Another view: ithasala only when the slow planet is ahead of the fast one.
एतदविचारितरमणीयम् ॥ यतस्समरसिंहेन उत्तमोत्तमकम्बूलोदाहरणे रविभौमाभ्यां यथा मेषेइत्यनेन चन्द्रपरौ यदि मिथस्स्वगृहोच्चसंस्थौ मेषे यथा कुजरवी तदतीव शस्तमित्यनेन च तेजस्सिंहेनापि मेषस्थयोरर्कभौमयोः कर्कस्थेन चन्द्रेण सहेत्थशालयोग उक्तस्तत्र मेषस्थयोरर्कभौमयोर्मन्दगयोश्शीघ्रगश्चन्द्रोऽग्रे भवतिनतुपृष्ठे तस्माच्छीघ्रमन्दग्रहयोर्मध्ये अग्रस्थत्वम्पृष्ठस्थत्वञ्च राशिचक्रे यथासम्भवं ज्ञेयम् ॥
This view is refuted by Samarasimha's and Tejahsimha's examples. Ahead or behind in the zodiac depends on the case.
एतदेव मणऊयोगे ॥
Manau yoga: the slow planet, Mars or Saturn, may be ahead of or behind the fast one, or in the same sign.
इत्यनेन पद्येन समरसिंहेन शीघ्रमन्दयोरग्रपृष्ठस्थत्वं यथासम्भवमेव प्रदर्शितं सर्वयोगेष्वपि मुथशीलविचारो ग्रहाणामेकराशिगानां भिन्नराशिगानामपि भवत्येवेति स्पष्टमभिहितं च ॥
Ahead or behind depends on the case. The ithasala check works in one sign or in different signs.