Hayanaratna · by Balabhadra
Chapter 7 · Finding the Dashas
दशानयनाधिकाराध्यायः
पुनरूनं हीनमंशाद्यं ग्रहमधिकांशाद्ग्रहाद्विशोध्य क्रमेण किंचिदधिकांशं तदग्रिमाद्विशोध्य एवं सर्वे ग्रहाः शोध्याः ॥ शेषांशानां नाम पात्यांशाश्शुद्धांशाश्च पुनः पात्यांशानां योगः कर्तव्यः ॥ स योगः हीनांशसाम्याभावे सर्वग्रहमध्ये योधिकांशस्तत्तुल्यमेव स्यादिति व्याप्तिः ॥
Then take the smaller degrees of a planet from the next planet with more degrees. Go on in order, taking each from the one after it. Subtract all the planets this way. The remainders are called patyamsha (degrees left after subtracting) and shuddhamsha (cleared degrees). Then add up the patyamshas. When no two least degrees are equal, the total equals the largest degree among all the planets. This is a fixed rule.
Simple meaning: Finding the remainders: take each planet's degrees from the next one's and add the remainders. The total equals the largest degree.
ननु हीनांशसाम्येपि तदूर्ध्वोर्ध्वतः पात्या इत्यनेनानीतपात्यांशयुतिः सर्वाधिकांशस्तत्तुल्या भवत्येवेति स्यादेतत् यदि साम्यांशाः परस्वगस्य पात्यांशशून्यत्वं पात्यांशाभावे दशाद्यभावोपि स्यात् ॥ नचेष्टापत्तिर्दशाभावे तु भावमुन्थावर्षेशादिफलस्योच्छेदापत्तेः ॥
Equal degrees: if two planets had equal degrees, the later one would get no period. That cannot be right.
किंच कृशांशसाम्ये समांशापरस्वगस्य दशाभावो यदि प्राचीनानामाचार्याणामनुमतः स्यात्तर्हि एकराशिगानामेकोंशं हरति बलीति जातकोक्तिवद्बलिन एकस्यैव दशा स्यादित्युक्तं स्यात् ॥ अंशाद्यस्यसमत्वे दशा च वीर्याधिकस्य पूर्वा स्यादितिवक्ष्यमाणहिल्लाजवचने निर्बलस्यानंतरं दशेत्याशयोवगम्यते ॥
Equal degrees: Hillaja says the stronger planet's period comes first. So the weaker one still gets a period, after it.
अन्यथा समांशापरस्वगस्य दशाभावेन तत्क्रमाकांक्षाभावात्तन्निर्णायकं हिल्लाजतेजःसिंहादिवाक्यं बलिनः पूर्वा दशा इत्यादिकमुन्मत्तप्रलपितुमिव स्यात् अपि च लग्नग्रहाणामष्टानामप्यंशसाम्ये सप्तानां पात्यांशशून्यत्वादेकस्यैव समग्रवर्षदशा स्यात् ॥
Equal degrees: if equal degrees gave no period, the rules for ties would be pointless, and one planet could rule the whole year.