Hayanaratna · by Balabhadra
Chapter 7 · Finding the Dashas
दशानयनाधिकाराध्यायः
अयमर्थः ॥ दशानयने सलग्नानां सर्वग्रहाणां राशीन्विहाय सर्वन्यूनांशो ग्रहः पूर्वं लेख्यः ॥ पुनस्तस्माद्यथायथा यस्ययस्यांशाधिक्यं तथा समग्रहः लग्नं निवेश्यः एवन्निवेशितास्सर्वे ग्रहा हीनांशसंज्ञकास्स्युः ॥ वर्षे अयं दशाक्रमः स्यात् ॥
This is the meaning. To work out the dashas (planet period), leave aside the signs of all the planets and the lagna (rising sign). Write first the planet with the fewest degrees of all. Then place the planets and the lagna in turn, as each has more degrees. All planets placed this way are called hinamsha (degrees in fewest-first order). This is the order of the dashas in the year.
Simple meaning: Order of the year's dashas: drop the signs, then list the planets and the lagna from fewest degrees to most.
पुनरूनं हीनमंशाद्यं ग्रहमधिकांशाद्ग्रहाद्विशोध्य क्रमेण किंचिदधिकांशं तदग्रिमाद्विशोध्य एवं सर्वे ग्रहाः शोध्याः ॥ शेषांशानां नाम पात्यांशाश्शुद्धांशाश्च पुनः पात्यांशानां योगः कर्तव्यः ॥ स योगः हीनांशसाम्याभावे सर्वग्रहमध्ये योधिकांशस्तत्तुल्यमेव स्यादिति व्याप्तिः ॥
Finding the remainders: take each planet's degrees from the next one's and add the remainders. The total equals the largest degree.
ननु हीनांशसाम्येपि तदूर्ध्वोर्ध्वतः पात्या इत्यनेनानीतपात्यांशयुतिः सर्वाधिकांशस्तत्तुल्या भवत्येवेति स्यादेतत् यदि साम्यांशाः परस्वगस्य पात्यांशशून्यत्वं पात्यांशाभावे दशाद्यभावोपि स्यात् ॥ नचेष्टापत्तिर्दशाभावे तु भावमुन्थावर्षेशादिफलस्योच्छेदापत्तेः ॥
Equal degrees: if two planets had equal degrees, the later one would get no period. That cannot be right.
किंच कृशांशसाम्ये समांशापरस्वगस्य दशाभावो यदि प्राचीनानामाचार्याणामनुमतः स्यात्तर्हि एकराशिगानामेकोंशं हरति बलीति जातकोक्तिवद्बलिन एकस्यैव दशा स्यादित्युक्तं स्यात् ॥ अंशाद्यस्यसमत्वे दशा च वीर्याधिकस्य पूर्वा स्यादितिवक्ष्यमाणहिल्लाजवचने निर्बलस्यानंतरं दशेत्याशयोवगम्यते ॥
Equal degrees: Hillaja says the stronger planet's period comes first. So the weaker one still gets a period, after it.