Hayanaratna · by Balabhadra
Chapter 7 · Finding the Dashas
दशानयनाधिकाराध्यायः
शुद्धांशकांस्तान्गुणयेदनेन लब्धध्रुवांकेन भवेद्दशायाः ॥मानं दिनाद्यं खलु तद्ग्रहस्य फलान्यथासान्निगदेत्तु शास्त्रात् ॥ ३ ॥
The same verse: Tajika Nilakanthi 4.3
The same verse is in Tajika Nilakanthi 4.3, with our English meaning there.
Simple meaning: Same verse as Tajika Nilakanthi 4.3; see its meaning there.
अयमर्थः ॥ दशानयने सलग्नानां सर्वग्रहाणां राशीन्विहाय सर्वन्यूनांशो ग्रहः पूर्वं लेख्यः ॥ पुनस्तस्माद्यथायथा यस्ययस्यांशाधिक्यं तथा समग्रहः लग्नं निवेश्यः एवन्निवेशितास्सर्वे ग्रहा हीनांशसंज्ञकास्स्युः ॥ वर्षे अयं दशाक्रमः स्यात् ॥
Order of the year's dashas: drop the signs, then list the planets and the lagna from fewest degrees to most.
पुनरूनं हीनमंशाद्यं ग्रहमधिकांशाद्ग्रहाद्विशोध्य क्रमेण किंचिदधिकांशं तदग्रिमाद्विशोध्य एवं सर्वे ग्रहाः शोध्याः ॥ शेषांशानां नाम पात्यांशाश्शुद्धांशाश्च पुनः पात्यांशानां योगः कर्तव्यः ॥ स योगः हीनांशसाम्याभावे सर्वग्रहमध्ये योधिकांशस्तत्तुल्यमेव स्यादिति व्याप्तिः ॥
Finding the remainders: take each planet's degrees from the next one's and add the remainders. The total equals the largest degree.
ननु हीनांशसाम्येपि तदूर्ध्वोर्ध्वतः पात्या इत्यनेनानीतपात्यांशयुतिः सर्वाधिकांशस्तत्तुल्या भवत्येवेति स्यादेतत् यदि साम्यांशाः परस्वगस्य पात्यांशशून्यत्वं पात्यांशाभावे दशाद्यभावोपि स्यात् ॥ नचेष्टापत्तिर्दशाभावे तु भावमुन्थावर्षेशादिफलस्योच्छेदापत्तेः ॥
Equal degrees: if two planets had equal degrees, the later one would get no period. That cannot be right.