Hayanaratna · by Balabhadra
Chapter 2 · Aspects, Strength, Results
दृष्टिसाङ्गबलेष्टकष्टाद्यानयनाधिकारः
उक्तंच मुक्तावल्यां ॥रवेः सप्तमे चंद्रभौमौ बलाढ्यौ खपंचांश ५० तूलांतरे दैत्यमंत्रीति ॥
And it is said in the Muktavali. In the 7th from the Sun, the Moon and Mars are rich in strength. Venus (the demons' minister) is rich in strength at a gap equal to fifty degrees (kha-pancha, 50).
Simple meaning: Time strength by Muktavali: Moon and Mars are strong in the 7th from the Sun. Venus is strong at a 50 degree gap.
सूर्यतुल्यत्वे सर्वेपि निर्बलाः ॥ अथबलानयनं ॥ सूर्यस्य चंद्रभौमयोश्चांतरं षडूनं स्थाप्यं तदंशास्त्रिभक्ता बलं भवेत् अत्रोपपत्तिरुच्चबलवत् सूर्यशुक्रयोश्चांतरं पंचाशदंशमध्ये स्थाप्यं तदनंतरमेव तदंशाः षड्गुणाः पंचभक्ताः शुक्रबलं स्यात् अत्रोपपत्तिः यदि पंचाशदंशैः षष्टिकला लभ्यंते तदेष्टेन किमित्युभयोर्दशभिरपवर्ते कृते गुणकषड्भाजकः पंचेत्युपपन्नं
Time strength: Moon and Mars use the gap from the Sun, kept under six signs, divided by 3. Venus uses the gap within 50 degrees, times 6, divided by…
अथ जीवशन्योरर्द्धरात्रानंतरबलारंभस्तृतीयप्रहरान्ते बलम्पूर्णञ्चतुर्थप्रहरान्ते बलं शून्यं अथ सूर्याद्रात्रिमानमानीय यद्यर्द्धरात्रानंतरमिष्टकालस्तदा तस्मिन्नर्द्धरात्रः शोध्यः यदि तृतीयप्रहरोत्तरमिष्टकालस्स रात्रिमानमध्ये शोध्यश्शेषं षष्टिगुणम्प्रहरमानेन भक्तं लब्धङ्गुरुशनिबलम्
Time strength: Jupiter and Saturn grow after midnight and are full at the end of the third watch. The result is the remainder times 60 divided by…
अथ दिवसादिग्रहबलम् । तत्र लग्नमध्ये रविं विशोध्य यद्यवशेषं न्यूनन्तदा तद्राश्यादिकं विंशद्गुणम्बलम् अधिकं षट्च्युतं विधेयं शेषं राश्यादिविंशद्गुणम्पुङ्ग्रहाणाम्बलम्भवति पुङ्ग्रहाणां रव्यूनलग्ने षडधिके तु न बलमेवं रव्यूने लग्ने षडूने सति स्त्रीग्रहेषु न बलम् षडधिके षडूनं वाधिकं द्वादशत्यक्तमवशेषं विंशतिगुणं स्त्रीग्रहवीर्य्यं भवति यतो दिननिशोः पुंस्त्रीप्राबल्यमुक्तं सन्धौ तु विरामः
Day and night strength: take the Sun from the lagna. Male planets rise to 60 at 3 signs and are nil at 0 and 6. Female planets rise to 60 at 9 signs…