Hayanaratna · by Balabhadra
Chapter 2 · Aspects, Strength, Results
दृष्टिसाङ्गबलेष्टकष्टाद्यानयनाधिकारः
अथ वर्षेशदशाधीशबलादिनिर्णयार्थं विंशोपकाविभागेन नष्टबलादिलक्षणमुक्तन्ताजिकसारे ॥बाणाल्पैर्नष्टबलोग्रहोदश १० मितैर्मध्योविशोपैस्ततः श्रेष्ठो घस्र १५ मितैस्सुखार्थजनकः प्रोक्तः खदस्रै २० र्भवेदिति ॥
Now the marks of lost strength and the rest are told in the Tajikasara. They are for settling the strength of the year lord and the dasha (planet period) lord. They go by vishopakas (twentieth parts). With less than five, the planet has lost strength. With ten (10), it is middling. Next, with fifteen (15), it is best. With twenty (20, 'kha-dasra'), it is said to bring comfort and wealth.
Simple meaning: Strength grades: under 5 vishopakas lost, 10 middling, 15 best, 20 brings comfort and wealth.
ननु विंशतिविंशोपकात्मकम्बलङ्कस्यापि ग्रहस्य नायाति तथाहि मेषस्थसूर्यस्य उच्चबलादि यद्यपि समायाति तथापि स्वगृहत्वान्मित्रसमशत्रुगृहादिभेदकृतबलतारतम्येनावश्यं न्यूनतासार्द्धद्वयविंशोपकमिता भवत्येव एवंसति सार्द्धास्सप्तदशाविंशोपकाबलं सिंहस्थसूर्यस्य स्वगृहबलं यद्यपि समायाति तथाप्युच्चराशेरभावादुच्चबलस्य न्यूनतायां षोडशाविंशोपका बलं स्यान्नतु विंशतिविंशोपकात्मकम् ॥
No planet reaches a full 20: the Sun in Aries gets 17 and a half, and the Sun in Leo 16.
अथ बुधस्य कन्यायां पञ्चदशांशे स्वगृहबलं स्वोच्चबलञ्च पूर्णं यद्यपि समायाति तथापि हद्दाद्रेष्काणनवांशबलानि पूर्णानि न सम्भवन्ति ॥
Mercury in Virgo at 15: house and high-point strength are full, but hadda, drekkana and navamsha cannot be full.
यतः ॥ आदिमाः षडंशाःकन्यायाम्बुधहद्दाअन्तिमस्त्रिभागो बुधद्रेष्काणः अंतिममंशत्रयंविंशतिकलाधिकम्बुधनवांशः यदि कन्यान्तिमनवांशो गृह्यते तदा स्वगृहे द्रेष्काणस्वनवांशबलानि सम्पूर्णान्यायान्ति परन्त्वेकं सन्धित्सतोऽपरंप्रच्यवत इति न्यायादुच्चबलं किञ्चिदूनं हद्दादिबलमपिमित्रादिगेहसत्त्वान्यूनमतः परमं बलं यथाकथञ्चिदष्टादशविंशोपकात्मकंस्यान्नविंशतिर्विंशोपकात्मकम्बलमन्येषान्तुगृहोच्चयोर्भेदाद्विंशतिविंशोपकन्यूनमेवबलं स्यात् ॥
Why Mercury in Virgo cannot reach 20: its hadda, drekkana and navamsha parts do not all fall at 15 degrees, so the best is 18.