हायनरत्न · बलभद्र कृत
अध्याय 1 · ग्रह, राशि और वर्ष प्रवेश
ग्रहराशिस्वरूपवर्षप्रवेशाद्यानयनाधिकारः
अथ वर्षध्रुवकोपपत्तिः ॥ अत्र वर्षादिः साध्यस्सच सौरएव ॥
अब वर्ष के ध्रुव का प्रमाण। यहाँ वर्ष का आरंभ पाना ज़रूरी है, और वह केवल सौर है।
सरल अर्थ: वर्ष के अंक का प्रमाण: यहाँ गिना जाने वाला वर्ष सौर वर्ष है।
उक्तं च सिद्धांतशिरोमणौ ॥ वर्षायनर्तुयुगपूर्वकमत्रसौरादिति अथ रवेश्चक्रभोगोर्कवर्षप्रदिष्टमिति । तेनैवोक्तत्वाद्रविभगणभोगेन सौरवर्षं भवति तस्य स्पष्टगतेश्चञ्चलत्वात्सौरवर्षादिः कदा भविष्यतीति जिज्ञासायां प्रत्यक्षोपलब्ध्या जन्मकालीनसूर्यतुल्यस्सूर्य्योस्मिन्दिने तत्र भगणभोगस्य जातत्वाद्वर्षादिर्जातस्तस्य ज्ञाने उपायः ।
सौर वर्ष: सूर्य का एक पूरा चक्कर। वह तब शुरू होता है जब सूर्य अपने जन्म के स्थान पर लौटता है।
यदि कल्पसौरवर्षैः कल्पसावनदिनानि लभ्यन्ते तदैकेन किमितिप्राप्तौ एकस्मिन्वर्षे एते सावनाहाः ३६५ । १५ । ३१ । ३० वारस्यैक्यापेक्षितत्वादुपरि सप्ततष्टाः जाताः ० १ । १५ । ३१ । ३० । अत्रानुपातः । यद्येकस्मिन्वर्षे एते सावनाहाः तदा भुक्तायुर्वर्षैः किमिति । अत्र गतवर्षाणि अनेन ध्रुवकेण ० १ । १५ । ३१ । ३० चतुर्षु स्थानेषु गुण्यानि रूपेण भाज्यानि फलञ्जन्मसमयादारभ्य सावनदिनानीति । अस्मिन् जन्मवारादियोगस्तु वर्षप्रवेशीयदिवसघटीपलज्ञानार्थं कृतः ॥ अत्र पलघटीभ्यः षष्ट्या ऊर्ध्वोर्ध्वयोर्जन्मपलघटीनां षष्ट्याधिकत्वाभावात् कृतवारास्सप्तैवातस्सप्ततष्टमित्युक्तम् । एवं कृते तस्मिन् सावयवे दिने वर्षादिः स्फुटो भवतीत्युपपन्नम् ।
वर्ष के अंक का प्रमाण: एक सौर वर्ष 365 दिन घटी पल विपल का है। पूरे सप्ताह निकालने पर ;;; बचता है।