Hayanaratna · by Balabhadra
Chapter 5 · Year Lord and Muntha
वर्षेशादिविचाराध्यायः
अथ सूर्यादिग्रहसाधारण्येनोत्तममध्यमनिकृष्टबलयुतस्याब्दपस्य फलं वर्षतन्त्रे ॥ तत्रादौ रविफलम् ॥सूर्योब्दपे बलिनि राज्यसुखात्मजार्थलाभः कुलोचितभवः परिवारसौख्यम् ॥पुष्टं यशो गृहसुखं विविधा प्रतिष्ठा शत्रुर्विनश्यति फलं जनिखेटयुक्त्या ॥
The same verse: Tajika Nilakanthi 7.15
The same verse is in Tajika Nilakanthi 7.15, with our English meaning there.
Simple meaning: Same verse as Tajika Nilakanthi 7.15; see its meaning there.
अयमर्थः ॥ वर्षेशो जन्मनि सन् स्थानगः स्वोच्चादिगः शुभग्रहावलोकितो भवति तदा शुभफलमपि विफलं स्यात्॥वैपरीत्येऽशुभफलं मिश्रत्वे मिश्रफलमिति ॥
Explaining the Sun's rule: how the year lord stood at birth shapes whether its result is good, bad or mixed.
मध्ये रवौ फलमिदं निखिलं तु मध्यं स्वल्पं सुखं स्वजनतोपि विवादमाहुः ॥
Same verse as Tajika Nilakanthi 7.16; see its meaning there.
अत्र रवेः शुभग्रहेण साकं मुथशिलयोगे अशुभफलाल्पता ज्ञेयेति ॥
Sun as year lord in ithasala with a good planet: the bad result is small.