Hayanaratna · by Balabhadra
Chapter 4 · The Sahamas
सहमाध्यायः
स्वात् द्वितीयभवनात् ॥
The word "svat" means from the 2nd house.
Simple meaning: The word 'svat': it means counting from the 2nd house.
येषु नोक्ता पृथक् शुद्धिस्तेषु कार्या धनादित इति ॥
Sahamas with no stated rule: count from the 2nd house.
जीर्णताजिकेपि स्पष्टमुक्तमेवं जीर्णताजिककर्तृभिः प्रामाणिकैरुक्तत्वात्केशवदैवज्ञहरिभट्टगणेशदैवज्ञकृतं सैकतासंस्काररहितं सहमसाधनं न रमणीयम् ॥ अस्मद्गुरूणामेव मते युक्तिसहमालोचयामः ॥ किञ्च सैकतासंस्काररहिते कृतेपि सहमे फले विसंवाद इत्यादि सुज्ञैर्विलोक्यमिति ॥
Finding sahamas without adding one sign: Balabhadra rejects it, since the Jirna Tajika states the added sign.
अथ च सैकतासंस्काररहितं सहमसाधनं केशवदैवज्ञगणेशदैवज्ञतोऽतिप्राचीनेन हरिभट्टेनैव कृतमित्यवगम्यते यतस्तस्मात् प्राचीनैर्वामनादिभिः सैकतासंस्कार उक्तोस्ति अत एव ज्ञायते गणेशदैवज्ञकेशवदैवज्ञादिभिराधुनिकैर्हरिभट्टमतेनैव सैकतासंस्काररहितं सहमसाधनं कृतमस्ति ॥ तत्र हरिभट्टस्य सहमसाधनज्ञानलेशोपि नास्ति ॥
Hari Bhatta dropped the added sign first, and later writers copied him. Balabhadra says Hari Bhatta did not know how to find sahamas.