Hayanaratna · by Balabhadra
Chapter 4 · The Sahamas
सहमाध्यायः
रात्रौ चन्द्रभोग्यांशाः सूर्य्यभुक्तांशैर्मध्यवर्तिराशिभिश्च युताः कार्यास्ततो यद्यन्तरराश्यंतरित्याह ॥ अन्य आद्यविधिः कर्तव्य इत्यर्थः ॥
By night, the Moon's degrees still to travel are joined with the Sun's travelled degrees and the signs between them. Then, with the words 'if the lagna is not within the signs between', he speaks of the rest. He says the other steps follow the first rule. This means the rest is done as in the first rule.
Simple meaning: By night, join the Moon's degrees left, the Sun's degrees gone and the signs between. The rest is as by day.
अत्रोदाहरणम्॥ दिने सूर्यभोग्यांशाः २१।५० चन्द्रभुक्तांशै १२।१० युताः ३४।० सूर्यचन्द्रयोर्मध्ये एक एव राशिस्तस्यांशैः ३० युताः ६४ अयमंशाद्यः सूर्योनश्चंद्रो जातः पुनरेतेंशा लग्नस्य बहिःस्थितत्वाद्भुक्तांशैर्योजिताः ७४ एवं धनुर्लग्नस्य संस्कारो जातस्ततो लग्नात् द्वितीयभवनं मकरस्थमारभ्य त्रिंशदंशैरेकराशिकल्पनया मकरकुंभयोरंशाः ६० शोधिताः शेषं १४ अंशादि॥ अत्र मीनलग्नस्यांशाः ३० न शुध्यन्त्यतो मीनचतुर्दशांशैर्विश्रान्तिर्जाता तस्मादिदमेव पुण्यसहमं मीनलग्ने चतुर्दशांश ११।१४ सम्मितं संज्ञातत्त्रानीतसमम् ॥
Samarasimha's way by day, example: 21-50 plus 12-10 plus 30 plus the lagna's 10 gives 74. Subtract 60 from Capricorn onward. 14 is left, so Pisces…
अथ रात्रौ चन्द्रभोग्यांशाः १७।५० सूर्यभुक्तांशै ८।१० युता २६। ० चन्द्रार्कयोरन्तरस्थराश्यंशै ९।२७ युताः २१६ जातश्चन्द्रोनसूर्यः॥ अत्र चन्द्रार्कयोर्मध्ये लग्नमस्तीत्यतो लग्नभोग्यांशाः ९।१६ प्रोक्तांशमध्ये २३६ शोधिताश्शेषं २८० ततो लग्नद्वितीयभवनं कर्कस्थमारभ्य नव राश्यंशाः २७० मीनान्तं यावत् अंशसमूहे २८० शोधिताश्शेषं १० मेषराशिरंशाः ३० न शुद्ध्यन्त्यतो मेषदशांशे विश्रांतिर्जाता॥ अत इदमेव ०।१० पुण्यसहमं संज्ञातत्त्रानीतसहमसमम् ॥
Samarasimha's way by night, example: 17-50 plus 8-10 plus nine signs between, less the lagna's 16 degrees left, leaves 280. Subtract 270 from Cancer…
अथ संज्ञातन्त्रोक्तसैकताकरणोपपत्तिः ॥ तत्र पूर्वं समरसिंहेन लग्रसंस्कारे शोध्यशोधकयोर्मध्ये लग्नाभावे लग्नभुक्तांशाः कृतांशसमूहे क्षेप्याः लग्नसमत्वे तु लग्नभोग्यांशाः कृतांशसमूहे शोध्याः पुनर्लग्नद्वितीयभवनात् त्रिंशत्प्रत्येकतः कृत्वा शोधनमुक्तम् ॥
Why one sign is added: Samarasimha says to add the lagna's degrees gone if it is outside, subtract its degrees left if it is inside, then subtract…