Hayanaratna · by Balabhadra
Chapter 1 · Planets, Signs, Year Entry
ग्रहराशिस्वरूपवर्षप्रवेशाद्यानयनाधिकारः
अतः कालस्पष्टीकरणमयुक्तम् ॥
So correcting the time is not right.
Simple meaning: Conclusion: the time correction is not right.
अथ यद्येवमुच्यते पूर्वोक्तानुपातसाधितत्वात् कल्पमध्यमभगणोत्थसायनध्रुवेपि ग्रहवन्मध्यमस्तत्साधितवर्षकालस्यापि मध्यमत्वंमध्यमस्पष्टीकरणं युक्तमेवेति ॥
Objection: the year figure is a mean value, so the entry time needs a true correction.
तदपि न । यतः सौरवर्षान्ते समुपचयापचयसाम्येन मध्यमध्यमस्पष्टसायनयोस्तुल्यत्वात् सौरवर्षान्तःपातिसप्ततष्टसायनध्रुवः स्पष्ट एव ॥ तत्साधितोब्दादिः सुतरां स्पष्ट एव ॥ स्पष्टस्य पुनस्स्पष्टीकरणं नयुज्यते ॥
Answer: over a whole solar year mean and true agree, so the year figure is already true.
अतएव यावान् जन्मनि भानुरिति पद्येन ताजिककर्तृषु ऋषिस्थानाभिषिक्तेन समरसिंहेन वर्षकालस्पष्टीकृतिं विनैव स्पष्टार्कसाम्यमुक्तं नतु मध्यमार्कसाम्यम् ॥ अत एव हरिभट्टगणेशदैवज्ञकृतं कालस्पष्टीकरणमयुक्तम् ॥
Samarasimha meant the true Sun, so Haribhatta's and Ganesha's time correction is not right.