Hayanaratna · by Balabhadra
Chapter 7 · Finding the Dashas
दशानयनाधिकाराध्यायः
व्याख्या॥सर्वग्रहाणां सलग्नानां भुक्तांशान् कर्मभूमौ संस्थाप्य अंशास्त्रिंशन्मध्ये शोधिताः संतो भोग्यांशास्स्युस्तेभ्यः पूर्वोक्तप्रकारेण यो जातांकस्तेन वर्षपरिमाणं भाज्यम् ॥
Explanation. Set the degrees gone of all the planets and the lagna (rising sign) on the work board. Take them away from thirty degrees. These are the degrees still to run. From them, by the method told before, find the jatanka (the number found). Divide the year's length by it.
Simple meaning: Degrees still to run: take each degrees-gone figure from 30. Then use the same method as before.
अयमर्थः ॥ पूर्वं ग्रहभागा हीनांशक्रमेण स्थापिताः ॥ इदानीन्ते भागास्त्रिंशन्मध्ये शोधितास्संतो भोग्यभागा वैपरीत्येन हीनांशा जातास्ते पुनर्वैपरीत्यक्रमेण पात्यांशाः कर्तव्यास्तेषां योगेन वर्षम्भजेत् ॥
Degrees still to run: the order is reversed. The remainders are made in reverse and the year is divided by their total.
यल्लब्धन्तेन यस्य यस्य योयो राशिसंख्यांकोंशसंघसंख्याकोस्ति तत्तद्ग्रहांशस्वरूपाः प्रत्येकभुक्तांशा इदानीम्पात्यांशकवशेन स्थापितास्तान् गुणयेत् ॥ गुणने कृते सति तत्तत्प्रमाणात्ततद्ग्रहांशवशतो दशादिवसाद्याः स्युः ॥
Degrees still to run: multiply each planet's figure by the result to get its period days.
उदाहरणम् ॥ तत्र हीनांशाद्या ग्रहाः अत्रैव चक्रन्यासः ॥ एषां भोग्यांशानांवैपरीत्यक्रमेण शोधने पात्यांशास्स्युः पात्यांशानां योगः २७ अनेन वर्षसंख्या सौरी ३६० भक्ता लब्धो दिनादिध्रुवकः १३।२० अनेन ग्रहाणां पात्यांशा गुणिता जाताः सौरदशादिवसाः ॥
Worked example: the remainders total 27. 360 divided by 27 gives a multiplier of 13 days 20 ghatikas.