Hayanaratna · by Balabhadra
Chapter 7 · Finding the Dashas
दशानयनाधिकाराध्यायः
अयं दशाक्रमः समरसिंहेनाप्रचुरदवस्थोभिहितः ॥
This dasha (planet period) order was told by Samarasimha ... (Our text is unclear here: a word saying how he gave it.)
Simple meaning: Samarasimha's order: our text is unclear about how he gave it.
अत्र केचित्सर्वग्रहभुक्तांशकराशीनालोक्य यो भवेदल्प इत्येव समरसिंहवाक्ये राशिशब्दस्य संघवाचित्वे वक्तव्ये सर्वग्रहभुक्तांशसंघं स्ववलोक्य यो भवेदल्प इत्येवं समरसिंहो ब्रूयात्तत्रोत्क्रमतो राशिपदोपादानसामर्थ्याद्राश्यादिग्रहाणां सलग्नानां दशा प्रागुक्तविधिना विधेयेत्याहुः ॥
Some readers: Samarasimha said rashi, not 'heap'. So they count periods by signs and degrees too.
कथं मेषादिषु राशिषु प्रथमतोल्पराशिगो ग्रहो लेख्यः ततस्तदधिको ग्रहो लेख्यः एवमुत्तरत्राधिकराशिस्थाः सलग्नास्सर्वे ग्रहा लेख्यास्ततः पूर्वपूर्वग्रहो राश्यादिरग्रिमाग्रिमग्रहाच्छोध्यः एवमग्रेपि शोध्याः तेषां राश्यादियोगस्यांशान्विधाय तैर्वर्षमानं भाज्यं यल्लब्धं स दिनादिध्रुवकः स्यात्तेन सलग्नग्रहाणां कृतांशानामंशादिगुणनीयं यद्भवति सा दिनादिका दशा स्यात् ॥
Periods by signs and degrees: list by full position from Aries, subtract each from the next, and use the same multiplier method.
उदाहरणम् ॥ पात्यराशिग्रहाणां योगो राश्यादिः १०।०।०।० अनेनांशीकृतेन ३००सौरवर्षमिति ३६० भक्तालब्धं दिनादि ध्रुवकः १।१२ अनेन शोधिता ग्रहा अंशीकृता गुणिता जाताः सर्वेषान्दशादिवसाः ॥ यादवेनतु राश्यादिग्रहाणान्दशाप्रकारान्तरेणोक्ता
Worked example: the remainders total 300 degrees. 360 divided by 300 gives 1 day 12 ghatikas.