Hayanaratna · by Balabhadra
Chapter 5 · Year Lord and Muntha
वर्षेशादिविचाराध्यायः
व्यत्यासे फलमादेश्यमित्थशाले विशेषतः ॥नोभयं चेत्तदाप्यस्ति जन्माश्रयमिति स्फुटम् ॥
The same verse: Tajika Nilakanthi 7.41
The same verse is in Tajika Nilakanthi 7.41, with our English meaning there.
Simple meaning: Same verse as Tajika Nilakanthi 7.41; see its meaning there.
अयमर्थः ॥ जन्मनि पंचमेशो गुरुः पंचमभावं पश्यति तत्र वा भवति तेन पुत्रप्राप्तिकरो जातः पुनर्यस्मिन् वर्षे गुरुदशा तस्मिन्नेव वर्षे वर्षलग्नेशवर्षेशयोरी सराफयोगो गुरुणा सह जातस्तदा तस्मिन्वर्षे पुत्रप्राप्तिर्न वाच्या व्यत्यासे दीप्तांशातिक्रमेण मूसरिःफयोगाभावे इत्थशाले वा फलं वाच्यं दृष्ट्यभावत्वात् ॥ इत्थशालमूसरिःफयोगयोरभावे जन्मकालाश्रयेण पुत्रप्राप्तिर्वाच्या इति ॥
Example, a son: Jupiter as 5th lord promises a son at birth. If the year lord and year-lagna lord move apart from him in his period year, no son…
हद्दे यादृशि यः खेट आधत्तेत्र च यो महः ॥
Same verse as Tajika Nilakanthi 7.39; see its meaning there.
अयमर्थः ॥ जन्मनि यो ग्रहस्स्वीयहद्दादियुतस्तस्मिन् यो ग्रहो मुथशिलेन तेजो निक्षिपति तस्मिन् ग्रहे वर्षकालेपि तादृशि सति कोर्थः ॥ वर्षे तस्यामेव हद्दायां स एव ग्रहो मुथशिलं करोति तदा स वर्षे क्रूरसौम्यबलाबलादिविवेकेनात्मशुभाशुभफलदो भवति ॥
Hadda rule: a planet in its own hadda that takes light by ithasala, at birth and again in the year, gives its own result, good or bad by its nature…