Hayanaratna · by Balabhadra
Chapter 4 · The Sahamas
सहमाध्यायः
अत्र सहमस्य सहमाधीशस्य च ग्रहाणां शुभाशुभं वा फलमविकलं स्यात् । निर्बलत्वे न्यूनं स्यादिति ज्ञेयम् ॥
Here, the good or bad result is full when they are strong. This holds for the sahama (special point for one life topic), its lord and the planets. If they are weak, it is less. This should be known.
Simple meaning: A sahama gives its full result when it and its lord are strong, and less when weak.
अथात्र किञ्चिद्विशेषविचारः ॥ एतानि सहमानि देवदत्तादेः शुभाशुभफलजिज्ञासार्थमभिहितानि तत्र यस्य जन्मपत्रमस्ति तस्य तावत् सहमविचारो भवति ॥ अथेदानीं तदीयभ्रातुर्यदि जन्मपत्राभावस्तदा तदीयपत्नीभाग्यलाभराज्यसहमानि चिकीर्षितानि सन्ति एवं पत्न्यादीनां भ्रात्रादिसहमानि चिकीर्षितानि सन्ति कथं तेषान्निष्पत्तिरिति चेदुच्यते ॥
Sahamas for a relative with no birth chart: how to make them.
यस्य भावस्य शुभाशुभफलजिज्ञासाभीष्टा स एव भावो लग्नं कल्प्यस्सूर्य्यादिग्रहास्तु यथास्थिता एव मन्तव्यास्तत्र सूर्योनचन्द्रान्वितमह्निलग्नमित्याद्युक्तप्रकारेण पुण्यादिसहमं साध्यं यतः पुनर्भ्रात्रादेः प्रसूतिसहमानयने षष्ठभावादियोगश्चिकीर्षितस्तत्र भ्रात्रादिभावाद्यत्षष्ट्यादिभावस्तं क्षिपेदिति ॥
A relative's sahama: take the relative's house as the lagna, keep the planets where they are, and count the 6th and other houses from that house.
अन्ये तु लग्नस्थाने भ्रात्रादिसहमं योज्यं षष्ठभावादियोगे पञ्चराशियुक्तस्तत्सहमयोगो विधेयः ॥
Another view: put the relative's sahama in place of the lagna; for the 6th house, add that sahama plus five signs.