Hayanaratna · by Balabhadra
Chapter 2 · Aspects, Strength, Results
दृष्टिसाङ्गबलेष्टकष्टाद्यानयनाधिकारः
अत्र लग्ने ग्रहः पूर्णवीर्य्यः केन्द्रेऽर्द्धवीर्य्यः पणफरापोक्लिमयोश्चरणवीर्य्यस्तत्र पूर्णम्बलं षष्टिकलात्मकम् । अर्द्धात्रिंशतूकलाः चरणःपञ्चदशकलाः
Here a planet in the lagna (rising sign) has full strength. In a kendra (corner house) it has half strength. In panaphara (succeeding house) and apoklima (falling house) it has quarter strength. Full strength is sixty kala (one-sixtieth part). Half is thirty kala. A quarter is fifteen kala.
Simple meaning: Place strength: lagna is full (60 kala), corner houses half (30), the other houses a quarter (15).
अथ लग्नसमे ग्रहे पूर्णम्बलन्द्वादशसन्धिविरामविकलातो लग्नभावप्रारम्भस्ततस्तद्विरामं यावत्फलोपचयः प्रथमभावविरामविकलातः प्रथमसन्धिविरामं यावद्भावफलोपचयः अन्तरस्थे ग्रहेनुपातः स चानुपातः पूर्वङ्ग्रहसन्ध्यन्तरं कार्यमित्यादिना भावफलानयनार्थं कृतमेव अतो लग्नस्थग्रहस्य भावफलमेवबलं केंद्रस्थग्रहस्य भावफलार्द्धमेव बलम्पणफरापोक्लिमस्थग्रहस्य भावफलचतुर्थांशो बलमिति
Place strength by the house result: lagna planet gets the whole house result, a corner house planet half, the other houses a quarter.
अथ स्त्रीग्रहाणाञ्चतुर्थादिषड्भावेषु बलवत्त्वोक्तेः पूर्वयुत्त्या चतुर्थादिषड्भावस्थानां स्त्रीग्रहाणाम्भावफलमेव तत्रत्यं बलम् एवम्पुरुषग्रहाणामपि दशमादिषड्भावेषु स्थितानां भावफलमेव बलमिति
Place strength: female planets in the 4th to 9th houses and male planets in the 10th to 3rd houses get the full house result.
अथ स्थिरराशिस्थग्रहबलं तत्र राश्यारंभे बलोपचयः पंचदशांशैः पूर्णबलं राश्यंते शून्यं बलमतो ग्रहस्य राशिपूर्वार्द्धे स्थितस्य भुक्तांशा राश्युत्तरार्द्धे स्थितस्य ग्रहस्य भोग्यांशाश्चतुर्गुणा बलं अत्रोपपत्तिः यदि पंचदशांशैः पूर्णं बलं ६० लभ्यते तदा स्थिरराशिस्थितभुक्तभोग्यैरंशैः किमत्रोभयोः पंचदशभिरपवर्ते कृते त्र्यंशाश्चतुर्गुणाः कार्या इत्युपपन्नम् एवं विषमसमराशिगानां पुंस्त्रीग्रहाणां स्त्रीराशिसंस्थग्रहबलवद्बलं ज्ञेयम् ॥ इतिस्थानबलं ॥
Place strength in a fixed sign: full 60 at 15 degrees. Take the degrees gone (first half) or to go (second half) and multiply by 4.