Hayanaratna · by Balabhadra
Chapter 7 · Finding the Dashas
दशानयनाधिकाराध्यायः
अथ गौरीमतोक्तस्य दशाक्रमस्य दशादिमा या भवसादुपेता ॥सा भुक्तभोग्यर्क्षघटीविनिघ्ना सर्वर्क्षनाडीविहता दिनाद्यम्॥द्विधा यदाप्तं त्विह भोग्यभुक्तं तस्य ग्रहस्यैव लिखेदधस्तात्॥दशाप्रमाणं परतो ग्रहाणां यथास्थमग्रे विलिखेदधोधः ॥
Next, the order of the dasha (planet period) told in Gaurimata (Gauri's view, a system of nine-planet periods). Take the first dasha, reached from the birth nakshatra (star). Multiply it by the star's ghatika (24-minute unit) passed and still to run. Divide by all the star's ghatikas. The result is in days and so on. You get two figures here: the part still to run and the part passed. Write the part still to run below, for that same planet. Then write the dasha lengths of the next planets, in order, one below another...
Simple meaning: Gauri's periods, first period: split it by the part of the birth star passed and still to run.
प्रांते पुनर्भुक्तघटीसमुत्थं दिनाद्यमाद्यस्य लिखेत्स्वगस्येति ॥ उदाहरणम् ॥ कस्यापि रोहिणी जन्मनक्षत्रं सा रोहिणी चंद्राधःस्था अतः प्रथमवर्षे चंद्रस्य दशा द्वितीयवर्षे भौमस्य तृतीयवर्षे राहोर्दशा एवमग्रेपि ज्ञेयम् ॥ अथास्य जन्मनिरोहिणीनक्षत्रस्य भुक्तघटिकाः ४० भोग्यघटिकाः २० तत्राष्टमवर्षप्रवेशे शुक्रदशा जाता ॥ तस्या दिनानि ६० भोग्य २० घटीगुणानि १२०० सर्वर्क्षघटी ६० भक्तानि जातानि शुक्रदशादिनानि तत्राष्टमवर्षे आदौ शुक्रदशा भोग्यदिनमिता २० ततो रवेः १८ ततश्चंद्रस्य ३० भौमस्य २१ राहोः ५४ गुरोः ४८ शनेः ५७ ज्ञस्य ५१ केतोः २१ पुनः प्रान्ते शुक्रदशा भुक्तदिनमिता ४० ज्ञेया ॥
Gauri's periods, example: birth star Rohini, 8th year in Venus's period; Venus 20 days, then the others, Ketu 21 days, then Venus 40.
अत्र गौरीमतमहादेवमतदशा बलराममतदशा च मासप्रवेशे मासप्रवेशदिननक्षत्राज्ज्ञेया ॥ दिनप्रवेशे दिनप्रवेशस्पष्टलग्ननक्षत्राज्ज्ञेया ॥ यथा मेषे त्रयोदशांशविंशतिकलापर्यन्तमश्विनीनक्षत्रमेव ज्ञेयम् ॥ अस्या एव नामान्तरं मुद्दादशेति ॥
Month and day periods: at the month entry use that day's star; at the day entry use the star of the lagna. These are the mudda periods.
मुद्ददशानयने सुगमोपायो मिश्रकृतः ॥
Mudda period lord of a year: years passed plus the birth star number, less 2, divided by 9; the remainder counts Sun, Moon, Mars, Rahu, Jupiter…