Hayanaratna · by Balabhadra
Chapter 7 · Finding the Dashas
दशानयनाधिकाराध्यायः
षडंशतुल्यास्त्वेतासां नाडिकाद्याः फलं दशाः ॥अथवा रुद्रनक्षत्रात्रित्रिभिर्भैर्दशेश्वराः ॥४॥एते एव भवंतीति महादेवेन भाषितम् ॥
In a day, these dasha (planet period) lengths are a sixth part, in ghatika (24-minute unit) and smaller units. They give results. Or else, count from Ardra (Rudra's star) in groups of three stars. These same planets are the dasha lords. Mahadeva said this.
Simple meaning: Day periods: a sixth of the days, in ghatikas. Mahadeva's view: count from Ardra, three stars to each lord.
अथ गौरीमतोक्तस्य दशाक्रमस्य दशादिमा या भवसादुपेता ॥
Gauri's periods, first period: split it by the part of the birth star passed and still to run.
प्रांते पुनर्भुक्तघटीसमुत्थं दिनाद्यमाद्यस्य लिखेत्स्वगस्येति ॥ उदाहरणम् ॥ कस्यापि रोहिणी जन्मनक्षत्रं सा रोहिणी चंद्राधःस्था अतः प्रथमवर्षे चंद्रस्य दशा द्वितीयवर्षे भौमस्य तृतीयवर्षे राहोर्दशा एवमग्रेपि ज्ञेयम् ॥ अथास्य जन्मनिरोहिणीनक्षत्रस्य भुक्तघटिकाः ४० भोग्यघटिकाः २० तत्राष्टमवर्षप्रवेशे शुक्रदशा जाता ॥ तस्या दिनानि ६० भोग्य २० घटीगुणानि १२०० सर्वर्क्षघटी ६० भक्तानि जातानि शुक्रदशादिनानि तत्राष्टमवर्षे आदौ शुक्रदशा भोग्यदिनमिता २० ततो रवेः १८ ततश्चंद्रस्य ३० भौमस्य २१ राहोः ५४ गुरोः ४८ शनेः ५७ ज्ञस्य ५१ केतोः २१ पुनः प्रान्ते शुक्रदशा भुक्तदिनमिता ४० ज्ञेया ॥
Gauri's periods, example: birth star Rohini, 8th year in Venus's period; Venus 20 days, then the others, Ketu 21 days, then Venus 40.
अत्र गौरीमतमहादेवमतदशा बलराममतदशा च मासप्रवेशे मासप्रवेशदिननक्षत्राज्ज्ञेया ॥ दिनप्रवेशे दिनप्रवेशस्पष्टलग्ननक्षत्राज्ज्ञेया ॥ यथा मेषे त्रयोदशांशविंशतिकलापर्यन्तमश्विनीनक्षत्रमेव ज्ञेयम् ॥ अस्या एव नामान्तरं मुद्दादशेति ॥
Month and day periods: at the month entry use that day's star; at the day entry use the star of the lagna. These are the mudda periods.