Hayanaratna · by Balabhadra
Chapter 7 · Finding the Dashas
दशानयनाधिकाराध्यायः
अथात्र वर्षफले संक्रांतिदिवसान् पञ्चाङ्गपत्रे दृष्ट्वा तत्तद्दशाप्रवेशमालक्ष्य फलानि वाच्यानि ॥ अत एव साम्प्रदायिकाः कस्मिन् काले दशाप्रवेशो जात इति संशये सौरसावनदिनादिवर्षमानेन दशाहाश्च समानयन्ति ॥
So in the year's results, look up the days when the Sun enters each sign in the panchanga (almanac). From them, mark when each dasha (planet period) begins. Then tell the results. That is why the people of the tradition use the solar-civil length of the year. When they doubt the time a dasha began, they work out the dasha days by it.
Simple meaning: Timing the periods: use the Sun's sign-entry days from the almanac. When in doubt, use the solar-civil year length.
तत्र दशाप्रवेशकालज्ञानार्थं वर्षप्रवेशवारादौ प्रथमदशादिनानि योज्यानि उपरि सप्ततष्टानि द्वितीयदशाप्रवेशे वारघटीपलात्मकः कालो भवति ॥ पुनर्द्वितीयदशाप्रवेशकाले द्वितीयदशादिनानि योज्यानि तृतीयदशाप्रवेशकालो भवति ॥ एवमग्रेपि ॥
Start day of each period: add the period's days to the year's starting weekday and time, and remove whole weeks.
उदाहरणम् ॥ श्रावणकृष्णनवम्यां शुक्रवासरे सूर्योदयाद्गतघटीपलेषु ५।३६ वर्षप्रवेशः अस्मिन्वर्षप्रवेशकाले प्रथमं बुधदशा जातासौरसावनदिनात्मिका २९।४७।५० पुनर्वर्षप्रवेशवारादौ ६।५।३६ बुधदशाहाः २९।४७।५० योजिताः ३५।५३।२६वारस्थाने सप्ततष्टे शेषं शनिवारो जातः ॥ वर्षप्रवेशादेकोनत्रिंशद्दिनान्तरं शनिवारे सूर्योदयाद्गतघटीपलेषु५३।२६। द्वितीयदशाप्रवेशो लग्नस्य जातः ॥ पुनरस्मिन् काले ०।५३।२६ लग्नदशाहा योजिताः ॥ पूर्ववत्तृतीयदशाप्रवेशो वाराद्यः कालो भवति ॥ एवं सर्वत्र ॥
Worked example: a year starting on Friday, plus Mercury's 29 days 47 ghatikas, puts the lagna's period start on a Saturday.
वामनेन तु मुन्थाफलज्ञानार्थं लग्नवन्मुन्थादशापि कर्तव्येत्युक्तम् ॥
Muntha period: Vamana says to give the muntha a period too, found like the lagna's.