Hayanaratna · by Balabhadra
Chapter 7 · Finding the Dashas
दशानयनाधिकाराध्यायः
अत्र कालहोरेशानयनार्थं वारप्रवृत्तिनयनार्थं सुगमोपायो मिश्रकृतः॥रेखास्वदेशांतरयोजनैः पलैर्निजांघ्रि ४ हीनैः शरवेदघट्यः४५॥युतोनिताः प्राक् परतो दिनार्द्धयुक्ताः स्फुटस्तैर्दिवसप्रवेशः ॥
Here is an easy way, made by Mishra, to find the kalahora (planet ruling the hour) lord and the start of the weekday. Take the yojanas between your place and the meridian line. Count them as palas (24-second units), less their own quarter. For a place to the east, add them to 45 ghatikas (24-minute units). For a place to the west, take them away. Then add half the day. This gives the true start of the weekday.
Simple meaning: Start of the weekday: distance from the meridian, less a quarter, is added to 45 ghatikas, then half the day is added.
तत्र मध्यरेखानगराद्गर्गराटाभिधात्पूर्वदिशि काशी चतुःषष्टियोजनानि ६४ ॥ एतानिनिजचतुर्थांश १६ हीनानि ४८ जातानि काश्यां देशांतरफलानि ॥ एभिः पलैः शरवेदघट्यः ४५ पूर्वदेशत्वाद्युक्ता जाताः ॥ काश्यांध्रुवांकः ४५।४८ अयं स्वदिनार्द्धेन १६।४५ युतो ६२।३३ अहोरात्रघटिका ६० हीनो जातः सूर्योदयाद्गतघटी २ पलेषु ३३ वारप्रवृत्तिकालः ॥
Weekday start at Kashi, example: 64 less 16 is 48 palas. 45;48 plus 16;45 less 60 gives 2;33 after sunrise.
अथ वारप्रवृत्तिघटिकाः २३३ इष्टघटिकासु ५।३६ हीनाः ३।३ जाता वारप्रवृत्तेर्घटिकाः ३। ३ द्विगुणिताः ६।६ पञ्चभक्ताः लब्धागतकालहोराः १ दिनाधिपाच्छुक्रात्पृथक्पृथग्गणनया द्वितीयस्य कालहोरा वर्षे अस्यच आद्या दशा ततः षष्ठषष्ठानुक्रमेण चंद्रशनिगुरुभौमरविशुक्राणां सौरवर्षे ३६० सप्तमांशेन ५१।२५।४२।४१।२५ दिनादिना सौरसावनवर्षे ३६५।१५।३१।३१।२४ सप्तमांशेन दिनादिना ५२।१०।४७।२१।२५ वा मिताक्रमेणैकैकदशा वर्षे स्यात् ॥
Kalahora example: one hour has passed, so the second hour lord starts the year. Each lord gets a seventh of the year, about 51 or 52 days.
अथादिमदशाधीशस्य दशागतगम्यकालानयनम्॥ तत्र पंचभक्तशेषं १।६ गतसंज्ञं पञ्चसु हीनं ३।५४जातगम्यसंज्ञं अथ गतं १।६ वर्षाद्रि ७ लवेन ५१।२५।४२।५१।२५ गोमूत्रिकया गुणितं षष्ठोपर्युपरियुतं ५६।३४१७।५।३३।३० पञ्चभक्तं लब्धं आद्यदशापतेर्दिनाद्यं दशामानङ्गतसंज्ञं ११।१८।५१।२५।४२।४२ अथगम्यं ३।५४ वर्षाद्रिलवगुणं षष्ठोपर्युपरियुतं २००।३४।१७।८।३१।३० पञ्चभक्तं लब्धमाद्यदशापतेर्दिनादिदशामानं गम्याभिधं ५४०।६।५१।२५।४२।१८ अत्र वर्त्तमानहोरास्वामिनो ग्रहस्यादौ दशा गम्यकालमिता ज्ञेयेति तत्रकालहोरेशक्रमेण वर्षाद्रिलवमितान्येषान्दशा पुनस्सर्वेषां ग्रहाणां प्रान्ते वर्षसमाप्तौ वर्तमानकालहोरास्वामिन एव गतकालमिता दशाज्ञेयेति॥
Kalahora example: the first lord gets about 40 days at the start and about 11 days at the end. The others get a seventh of the year each.