Hayanaratna · by Balabhadra
Chapter 7 · Finding the Dashas
दशानयनाधिकाराध्यायः
अत्रोदाहरणम् ॥ तत्र श्रावणवदि नवर्म्यां शुक्रवासरे उदयाद्गतघटीपलेषु ५।३६ वर्षप्रवेशः । तत्र रविः ३।९।३६ दिनमानं ३३।३०
Here is an example. The year entry falls on the 9th tithi (moon day) of the dark half of Shravana, a Friday. It falls 5;36 after sunrise, in ghatikas (24-minute units) and palas (24-second units). There the Sun is at 3;9;36. The length of the day is 33;30.
Simple meaning: Kalahora example: the year starts on a Friday in Shravana, 5 ghatikas 36 palas after sunrise. The day is 33;30 long.
अत्र कालहोरेशानयनार्थं वारप्रवृत्तिनयनार्थं सुगमोपायो मिश्रकृतः॥
Start of the weekday: distance from the meridian, less a quarter, is added to 45 ghatikas, then half the day is added.
तत्र मध्यरेखानगराद्गर्गराटाभिधात्पूर्वदिशि काशी चतुःषष्टियोजनानि ६४ ॥ एतानिनिजचतुर्थांश १६ हीनानि ४८ जातानि काश्यां देशांतरफलानि ॥ एभिः पलैः शरवेदघट्यः ४५ पूर्वदेशत्वाद्युक्ता जाताः ॥ काश्यांध्रुवांकः ४५।४८ अयं स्वदिनार्द्धेन १६।४५ युतो ६२।३३ अहोरात्रघटिका ६० हीनो जातः सूर्योदयाद्गतघटी २ पलेषु ३३ वारप्रवृत्तिकालः ॥
Weekday start at Kashi, example: 64 less 16 is 48 palas. 45;48 plus 16;45 less 60 gives 2;33 after sunrise.
अथ वारप्रवृत्तिघटिकाः २३३ इष्टघटिकासु ५।३६ हीनाः ३।३ जाता वारप्रवृत्तेर्घटिकाः ३। ३ द्विगुणिताः ६।६ पञ्चभक्ताः लब्धागतकालहोराः १ दिनाधिपाच्छुक्रात्पृथक्पृथग्गणनया द्वितीयस्य कालहोरा वर्षे अस्यच आद्या दशा ततः षष्ठषष्ठानुक्रमेण चंद्रशनिगुरुभौमरविशुक्राणां सौरवर्षे ३६० सप्तमांशेन ५१।२५।४२।४१।२५ दिनादिना सौरसावनवर्षे ३६५।१५।३१।३१।२४ सप्तमांशेन दिनादिना ५२।१०।४७।२१।२५ वा मिताक्रमेणैकैकदशा वर्षे स्यात् ॥
Kalahora example: one hour has passed, so the second hour lord starts the year. Each lord gets a seventh of the year, about 51 or 52 days.