Hayanaratna · by Balabhadra
Chapter 6 · The Twelve Houses
द्वादशभावविचाराध्यायः
अथ सामान्यतो भावविचार उक्तोब्दतन्त्रे ॥यो भावस्स्वामिसौम्याभ्यां दृष्टो युक्तोयमेधते ॥पापदृष्टयुतो नाशो मिश्रैर्मिश्रफलं वदेत् ॥
The same verse: Tajika Nilakanthi 9.1
Next, the general judging of the houses, as said in the Varsha Tantra. The same verse is in Tajika Nilakanthi 9.1, with our English meaning there.
Simple meaning: Same verse as Tajika Nilakanthi 9.1; see its meaning there.
अत्र स्वामिशुभग्रहाणां युतौ दृष्टा वा तद्भावसंबन्धि स्वस्य सौख्यं कोर्थः ॥ तद्भावोक्तशुभपदार्थानां वृद्ध्या अशुभपदार्थानान्नाशेन च सुखम् ॥ पापैस्तद्भावोक्तोऽशुभपदार्थवृद्ध्या शुभपदार्थनाशेन च स्वस्य दुःखमेवम्मिश्रैः सौम्यपापैर्मिश्रं शुभमशुभञ्च ॥ तत्र सौम्याधिक्ये सुखाधिक्यन्दुष्टं फलं पापाधिक्ये दुःखाधिक्यशुभफलं ज्ञेयम् ॥ तुल्यत्वे क्रूरसौम्यानां बलाबलविवेकेन फलनिर्देशः ॥
A house with its lord and good planets: happiness. Bad planets: sorrow. Mixed planets: a mixed result. When equal, judge by strength.
अत्र भावेशमित्रग्रहेण दृष्टो युतो वा भावः स्वफलप्रदो वा ज्ञेयः ॥ भावेशशत्रुणा सौम्येनापि युतो दृष्टो वा भावः स्वफलनाशको ज्ञेयः ॥ भावाधीशोपि लग्नाद्भावाद्वा केंद्रगो भावशुभफलवृद्धिदः ॥ षष्ठाष्टमद्वादशस्थो भावफलनाशको ज्ञेय इति विशेषः ॥
House lord's friends help the house. Its enemies hurt it. The lord in a corner house helps. The lord in the 6th, 8th or 12th spoils the house.
भावनाथो यथा पश्येद्भावं कार्यकरस्स्मृतः ॥
A house lord that looks at its own house makes the work happen, even if overpowered.