Hayanaratna · by Balabhadra
Chapter 1 · Planets, Signs, Year Entry
ग्रहराशिस्वरूपवर्षप्रवेशाद्यानयनाधिकारः
जातकशास्त्रात्सदसज्ज्ञानं बह्वायाससाध्यं बहुकालसाध्यताऽस्ति ॥
Knowing good and bad from the jataka (birth chart reading) needs much labour and much time.
Simple meaning: Answer: the birth-chart method takes much work and time.
तथाहि जन्मकालीनस्पष्टग्रहानंगीकृत्य दृष्टिषड्बलेष्टकष्टबलानि सर्वग्रहाणामायुर्वर्षाणि चानीय ततो दशामंतर्दशां च निर्णीय जातकशास्त्रोदितं सदसत्फलं वाच्यम् ।
The birth-chart method: looks, strengths, life years and periods must all be worked out first.
तत्रापि इष्टकष्टबलाश्रयगुणकानयने सच्छेदगणितस्य दशाप्रवेशो जन्मकालकलियातवत्सरस्येत्यादिगणितस्य च ज्ञानं सिद्धांतविदामेव न यादृशानां तादृशानाम् ।
The birth-chart method: its maths is known only to experts.
अन्यच्च एवमत्यायासेनानीतास्वपि दशासु फलविवेकः कर्त्तुमशक्यः कथं 'आयुःकृतं येन हि यत्तदेवे'त्यादिवराहोक्तेर्ग्रहायुर्वर्षाणां दश वा पञ्चदशवा विंशतिर्वेत्यादीनां बहूनां वर्षाणां सत्त्वात्तत्तद्ग्रहसम्बन्धि शुभाशुभदशाफलं तावत्कालमध्ये नैकरूपं सम्भवति ॥
Problem with long periods: a period of many years cannot give one result throughout.