Hayanaratna · by Balabhadra
Chapter 1 · Planets, Signs, Year Entry
ग्रहराशिस्वरूपवर्षप्रवेशाद्यानयनाधिकारः
तत्रापि इष्टकष्टबलाश्रयगुणकानयने सच्छेदगणितस्य दशाप्रवेशो जन्मकालकलियातवत्सरस्येत्यादिगणितस्य च ज्ञानं सिद्धांतविदामेव न यादृशानां तादृशानाम् ।
Even there, finding the multipliers for the ishta (good strength) and kashta (bad strength) needs arithmetic with fractions. The dasha (planet period) entry needs the years of the Kali age gone by at birth, and such maths. Only those who know the siddhanta (planet-maths text) know this. Not just anyone.
Simple meaning: The birth-chart method: its maths is known only to experts.
अन्यच्च एवमत्यायासेनानीतास्वपि दशासु फलविवेकः कर्त्तुमशक्यः कथं 'आयुःकृतं येन हि यत्तदेवे'त्यादिवराहोक्तेर्ग्रहायुर्वर्षाणां दश वा पञ्चदशवा विंशतिर्वेत्यादीनां बहूनां वर्षाणां सत्त्वात्तत्तद्ग्रहसम्बन्धि शुभाशुभदशाफलं तावत्कालमध्ये नैकरूपं सम्भवति ॥
Problem with long periods: a period of many years cannot give one result throughout.
अंतर्दशायामपि वर्षाणां पञ्चकं षट्कं वा एकैकस्य समायाति तत्रापि नैकरूपमन्तर्दशाफलं विदशासूपदशासु च कस्यचिदल्पवर्षत्वं कस्यचिद्बहुवर्षत्वं समायाति ॥
Problem with sub-periods: they too run for years and vary.
तत्रापि नैकरूपफलता वक्तुं शक्यते ॥ तस्माद्बह्वायासेनापि जातकफलं स्थूलकालफलदमस्ति ॥
So the birth chart gives only broad results over long spans.