Hayanaratna · by Balabhadra
Chapter 1 · Planets, Signs, Year Entry
ग्रहराशिस्वरूपवर्षप्रवेशाद्यानयनाधिकारः
खषड्घ्नं भयातं भभोगोद्धृतं तत्खतर्क ६० घ्नधिष्ण्येषु युक्तं २ द्विनिघ्नम् ॥नवाप्तं शशी भागपूर्वंस्तु भुक्तिः खखाभ्राष्टवेदा ४८००० भभोगेन भक्ता इति ॥
The same verse: Tajika Nilakanthi 1.19
The same verse is in Tajika Nilakanthi 1.19, with our English meaning there.
Simple meaning: Same verse as Tajika Nilakanthi 1.19; see its meaning there.
अत्रेदं ध्येयम् ॥ पंचांगीयग्रहाः किंदेशीया उत्पन्नश्च मनुष्यः किंदेशीयः । नहि सर्वदेशीयमनुष्याणामेकदेशनिष्पन्नपञ्चांगेन स्पष्टा ग्रहाः कर्तुं युज्यन्ते ॥ देशभेदेन देशांतरभुजांतरोदयांतरचरपलादिसंस्कारसद्भावात्सूर्यादिसर्वग्रहाणामन्यथादर्शनात् ॥ तस्मात्स्पष्टग्रहसहितैस्तद्देशीयपञ्चांगैःकृत्वा तद्देशीयमनुष्याणां स्पष्टा ग्रहाः कर्तुमिष्यन्ते नत्वन्यत्रेति ज्ञेयम् ॥
Use a local almanac: an almanac made for one country does not give true planets for people born in another.
अथ लग्नाद्द्वादशभावसाधनम् । उक्तं च जातकसुधानिधौ ॥
Why work out the houses: planets give each house's good and bad, so the houses must be found for birth, year and question charts.
ताजिकतिलकेपि ॥
Houses come first: for year, question, journey and birth charts, work out the houses before anything else.