Hayanaratna · by Balabhadra
Chapter 1 · Planets, Signs, Year Entry
ग्रहराशिस्वरूपवर्षप्रवेशाद्यानयनाधिकारः
एवं सकलगणकसार्वभौमश्रीमद्रामदैवज्ञाप्तविधैर्मादृशैरनेके विशेषाः कर्तुं शक्यंते परंतु विस्तरभयादनुयोगः ॥
In this way, people like me, taught by the revered astrologer Rama, emperor of all reckoners, can add many refinements. But for fear of length, they are left as a question for the reader.
Simple meaning: More refinements: possible, but left out because the book would grow too long.
अत्रेदंध्येयं ॥ यदिचैत्रादेरनंतरमपि मीनार्के जन्म तदा पूर्ववर्षशक एव जन्मशकः प्रकल्प्यः ॥ एवं जन्मार्कसमभानुश्चैत्रादेरूर्ध्वं मेषादेः प्राग्भवति तदा प्रागब्दशक एवाभीष्टशकः प्रकल्प्यः ॥ मेषादेरूर्ध्वं त्वग्रिमशक एव ज्ञेयः ॥
Which Shaka year: if the Sun is still in Pisces after Chaitra starts, use the year before.
अन्यथाधिमाससंभवे कदाचिदेव चंद्रवर्षमध्ये द्विवारं जन्मार्कसमभानोः संभवेन वर्षद्वयोत्थवारादिवैलक्षण्यमपेक्षितमपि गतसमासाम्यान्न स्यात् एवमधिमाससहितवर्षांदग्रिमवर्षे कदाचिच्चांद्रवर्षमुल्लंघ्यापि जन्मार्कसमभानौ जातेसत्येकवर्षवारादिसमं वारादेरंतरं च स्यात् तस्मात्सौरवर्षादौ शकप्रवृत्तिर्ज्ञेयेति ।
Why the solar year: with an extra lunar month, lunar counting can give the wrong years gone. So the Shaka starts with the solar year.
अत्र जन्मार्कतुलो रविर्यस्मिन्मासे भवति तस्मिन्नेव मासे वर्षप्रवेशो ज्ञेयः ॥
Month of the year entry: the month in which the Sun returns to its birth place.