Hayanaratna · by Balabhadra
Chapter 1 · Planets, Signs, Year Entry
ग्रहराशिस्वरूपवर्षप्रवेशाद्यानयनाधिकारः
अन्यच्च"सर्वस्यैव हि शास्त्रस्य कर्म्मणो वापि कस्यचित् ॥यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते"
And another: 'Take any science at all, or any act. As long as its purpose is not told, who will take it up?'
Simple meaning: Why state the purpose: no one takes up a work until its purpose is told.
इत्युच्यते यवनाचार्येण पारस्या भाषया प्रणीतज्योतिश्शास्त्रैकदेशरूपं वार्षिकादिनानाविधफलादेशफलकं शास्त्रं ताजिकशब्दवाच्यम् ॥ तदनन्तरसंभूतैः समरसिंहादिभिरधीतव्याकरणैर्ब्राह्मणैस्तदेव शास्त्रं संस्कृतशब्दोपनिबद्धं तदपि ताजिकशब्दवाच्यमेव ॥ अतएवैतैस्ताएव इक्कवालादयो यावंत्यः संज्ञा उपनिबद्धाः ॥
What Tajika is: a Persian science of yearly results, later put into Sanskrit by Samarasimha and others, keeping its terms.
अत्र ग्रहराशिस्वरूपषोडशयोगसहमासांगवर्षफलभावविचारदशाविभागगमनागमनाद्यनेकप्रश्नरूपास्ताजिकपदार्थाः प्रतिपाद्यंते न विषयभूताः । एषां पदार्थानां ताजिकग्रंथस्य च प्रतिपाद्यप्रतिपादकभावः संबंधः ॥
Subject of the Tajika: planets, signs, yogas, sahamas, year results, houses, periods and questions; the book teaches them.
प्रयोजनञ्च भूतभविष्यद्वर्तमानशुभाशुभफलकथनम् ॥
Purpose: telling good and bad results for past, present and future.