Vishnudharmottara Purana (Jyotisha Selections) · by Vyasa
Chapter 22 · The Jataka Chapter
जातकाध्यायः
धन्वीनाम धनुर्धरः पुरुषो हयपश्चिमार्धः पिङ्गलः कालस्योरू ग्राम्यः प्राग्द्वारः तस्य प्रागर्धो द्विपात्, द्वितीयमर्धं चतुष्पात् तस्य प्रथममर्धं पूर्वस्यां दिशि, दिवाबली पश्चिमान्तमर्धं रात्रौ दक्षिणस्यां दिशि बलवान्, द्विस्वभावः पृष्ठोदयः क्रूरः पुमान्विषमो जीवक्षेत्रं तत्त्रिकोणमिति ।।
In the full Vishnudharmottara Purana this is Khanda 2, chapter 167, prose part 8.
Sagittarius is called Dhanvi, an archer, a man. Its back half is a horse. It is tawny. It is the thighs of Time. It is a village sign. Its door is the east. Its first half has two feet. Its second half has four feet. Its first half is strong in the east and by day. Its half that ends in the west is strong at night and in the south. It is a dual sign and rises back-first. It is harsh and male, and it is odd. It is Jupiter's own sign and its mulatrikona (a planet's strong own-sign part).
Simple meaning: Sagittarius is an archer with a horse's back half, a male dual sign. It is Jupiter's own sign.
मकरो नाम मृगः पूर्वार्धो मकरः, पश्चार्धो मृगः, प्रागर्धेनारण्यो द्वितीयार्धेनाम्बुचरः (कबेरैः) कालस्य जानुनी पूर्वार्धोर्धचतुष्पात्, पश्चार्धेन कीटो, दक्षिणद्वारः, प्रागर्धेन रात्रौ दक्षिणस्यां दिशि बली पश्चिमार्धेन, सन्ध्यायां पश्चिमायां दिशि चरः, नीचं बृहस्पतेः तस्यैव पश्चिमे भागेऽतिनीचं, भौमस्योच्चस्तस्यैवाष्टाविंशतितमे भागेऽत्युच्चः, सौरक्षेत्रमिति ।।
Capricorn is a sea-monster in front and a deer behind, ruled by Saturn. Jupiter is lowest and Mars highest in it.
कुम्भो नाम पुरुषः स्कन्धेन रिक्तकुम्भधरः पिङ्गलः कालस्य जंघे द्विपाद्ग्राम्यः पश्चिमद्वारः पूर्वेण च दिवा बली शीर्षोदयः स्थिरः क्रूरः पुमान्विषमः शनैश्चरक्षेत्रं तत्त्रिकोणमिति ।।
Aquarius is a man with an empty pot on his shoulder, a male fixed sign ruled by Saturn.
मीनो नाम द्वौ मत्स्यावन्योन्यपुच्छादिमुखौ मत्स्यवर्णौ कालपादौ कीट उदीचः पश्चिमस्यां दिशि सन्ध्यायां बली पृष्ठपुच्छोदयो दूस्वभावः सौम्यः समः स्त्रीराशिः बुधस्य नीच तस्यैव बुधस्य पञ्चदशभागेऽतिनीचं शुक्रस्योच्चं तस्यैव सप्तविंशतितमे भागेऽत्युच्चं जीवक्षेत्रमिति ।।
Pisces is two fish, the feet of Time, a female dual sign ruled by Jupiter. Venus is highest at its 27th degree.