Vishnudharmottara Purana (Jyotisha Selections) · by Vyasa
Chapter 22 · The Jataka Chapter
जातकाध्यायः
सिंहः सिंहाकारः पाण्डुवर्णः कालस्योदरमारण्यः प्राग्द्वारः चतुष्पात् दक्षिणस्यां दिशि रात्रौ बली स्थिरः शीर्षोदयः क्रूरो विषमः पुमान् आदित्यक्षेत्रं तत्त्रिकोणमिति ।।
In the full Vishnudharmottara Purana this is Khanda 2, chapter 167, prose part 5.
Leo has the form of a lion. It is pale in colour. It is the belly of Time. It is a forest sign. Its door is the east. It has four feet. It is strong in the south and at night. It is fixed and rises head-first. It is harsh and odd, and it is male. It is the Sun's own sign and its mulatrikona (a planet's strong own-sign part).
Simple meaning: Leo is a pale lion, the belly of Time, a male fixed sign. It is the Sun's own sign.
कन्याराशिः कुमारी नौस्था दीपिकाहस्ता विचित्रवर्णा कालस्य कटिः ग्राम्यो दक्षिणद्वारः पूर्वस्यां दिशि बली स्थिरः शीर्षोदयः समः सौम्यः स्त्रीराशिः शुक्रस्य नीचः सप्तविंशतितमे भागे तस्यैवातिनीचो बुधस्योच्चस्तस्य पञ्चदशे भागेऽत्युच्चो बुधक्षेत्रं तत्त्रिकोणमिति ।।
Virgo is a girl in a boat with a lamp. It is Mercury's female sign.
तुला वणिक् पुरुषः तुलाधरापणवीथीगतः कृष्णवर्णः कालस्य वस्तिस्थितो ग्राम्यः पश्चिमद्वारो द्विधा पूर्वस्यां दिशि बली चरः शीर्षोदयः क्रूरो विषमः पुरुषराशिः शुक्रक्षेत्रम् आदित्यनीचस्तस्यैव दशमे भागेऽतिनीचः शनैश्चरस्योच्चश्चोर्ध्वः तस्यैव विंशतितमे भागेऽत्युच्चः तस्यैवातिनीचो भौमक्षेत्रमिति ।।
Libra is a merchant with scales, ruled by Venus. The Sun is lowest at its 10th part.
धन्वीनाम धनुर्धरः पुरुषो हयपश्चिमार्धः पिङ्गलः कालस्योरू ग्राम्यः प्राग्द्वारः तस्य प्रागर्धो द्विपात्, द्वितीयमर्धं चतुष्पात् तस्य प्रथममर्धं पूर्वस्यां दिशि, दिवाबली पश्चिमान्तमर्धं रात्रौ दक्षिणस्यां दिशि बलवान्, द्विस्वभावः पृष्ठोदयः क्रूरः पुमान्विषमो जीवक्षेत्रं तत्त्रिकोणमिति ।।
Sagittarius is an archer with a horse's back half, a male dual sign. It is Jupiter's own sign.