Vishnudharmottara Purana (Jyotisha Selections) · by Vyasa
Chapter 22 · The Jataka Chapter
जातकाध्यायः
बली चरः पृष्ठोदयः कीटः सौम्यः समः स्त्रीराशिः चन्द्रक्षेत्रं भौमनीचः तस्याष्टविंशत्तमे भागेऽतिनीचो जीवोच्चस्तस्य पञ्चमे भागेऽत्युच्च इति ।।
In the full Vishnudharmottara Purana this is Khanda 2, chapter 167, prose part 4.
Cancer is strong. It is a moving sign and rises back-first. It is like an insect. It is mild and even, and it is a female sign. It is the Moon's own sign. It is Mars's low point. At its 28th degree it is Mars's very lowest. It is Jupiter's high point. At its 5th degree it is Jupiter's very highest.
Simple meaning: Cancer is a female moving sign of the Moon. Mars is lowest at its 28th degree, Jupiter highest at its 5th.
सिंहः सिंहाकारः पाण्डुवर्णः कालस्योदरमारण्यः प्राग्द्वारः चतुष्पात् दक्षिणस्यां दिशि रात्रौ बली स्थिरः शीर्षोदयः क्रूरो विषमः पुमान् आदित्यक्षेत्रं तत्त्रिकोणमिति ।।
Leo is a pale lion, the belly of Time, a male fixed sign. It is the Sun's own sign.
कन्याराशिः कुमारी नौस्था दीपिकाहस्ता विचित्रवर्णा कालस्य कटिः ग्राम्यो दक्षिणद्वारः पूर्वस्यां दिशि बली स्थिरः शीर्षोदयः समः सौम्यः स्त्रीराशिः शुक्रस्य नीचः सप्तविंशतितमे भागे तस्यैवातिनीचो बुधस्योच्चस्तस्य पञ्चदशे भागेऽत्युच्चो बुधक्षेत्रं तत्त्रिकोणमिति ।।
Virgo is a girl in a boat with a lamp. It is Mercury's female sign.
तुला वणिक् पुरुषः तुलाधरापणवीथीगतः कृष्णवर्णः कालस्य वस्तिस्थितो ग्राम्यः पश्चिमद्वारो द्विधा पूर्वस्यां दिशि बली चरः शीर्षोदयः क्रूरो विषमः पुरुषराशिः शुक्रक्षेत्रम् आदित्यनीचस्तस्यैव दशमे भागेऽतिनीचः शनैश्चरस्योच्चश्चोर्ध्वः तस्यैव विंशतितमे भागेऽत्युच्चः तस्यैवातिनीचो भौमक्षेत्रमिति ।।
Libra is a merchant with scales, ruled by Venus. The Sun is lowest at its 10th part.