Vira Simhavaloka · by Virasimha
Chapter 82 · Kshudra roga: past deeds
क्षुद्ररोग — कर्मविपाकः
इति वल्मीकपादहरणविधिः ।
This ends the rite for removing valmikapada (swollen feet).
Classical view, not medical advice.
अथ ज्वालागर्दभादिरोगप्रतीकाराय गायत्र्ययुतं जपेत् । तिलाज्येन च जुहुयात् । गां सुवर्णं च दद्यात् ब्राह्मणभोजनं च कारयेत् । इति ज्वालागर्दभपाषाणगर्दभप्रतीकारविधिः ।
Next, the remedy for jvalagardabha (burning boils) and the like. He should do japa (repeating a mantra) of the gayatri (gayatri mantra) 10,000…
अथ कीलकव्रणे हे०तत्प्र०।परव्रतभेदी कीलकव्रणी भवति अस्य प्रायश्चित्तं कृच्छ्रं कृत्वाऽऽयसं दद्यात् ।
Next, nail-like sores: cause and remedy. One who breaks another's vow may get nail-like sores. His prayashchitta (making amends): he should do…
अथ वैकृत्यरोगे हे०तत्प्र० मूत्रपुरीषं कृत्वा शौचमकृत्वैव यो भुंक्ते स स्रवद्गुदो भवति । तत्र दारुणापि पीडा भवति । कृच्छ्रातिकृच्छ्रचांद्रायणानि कुर्यात् । अक्षीभ्यामित्यष्टोत्तरशतसहस्रं क्षीरसर्पिर्भ्यां जुहुयात् । उद्यन्नद्येति जपेत् ।
Next, the trouble of deformity: cause and remedy. One who passes urine or stool and eats without washing may get a leaking anus. The pain is then…