Hayanaratna · by Balabhadra
Chapter 7 · Finding the Dashas
दशानयनाधिकाराध्यायः
इत्यादिबहूनि वचांसि राशिराहित्यप्रतिपादकानि संति ॥
These and many other sayings teach that the signs are left out.
Simple meaning: Many texts agree: the signs are dropped.
यादवेन तु किं मूलमंगीकृत्य राश्यादिग्रहदशानयनमभाणि तदभिप्रायं वयन्न जानीमः ॥ अथ च तथाहीत्यादिपद्येन त्वया युक्तिरुक्ता सा चिंत्या न हि वाचनिकेऽर्थे युक्तिः प्रभवेत् ॥
Balabhadra on Yadava: his method has no text behind it, and reasoning cannot override what a text says.
पूर्वोक्तवाक्येषु स्वल्यांशग्रहक्रमेण दशानयनाभिधानात् ॥ अथ च लग्नादित्योडुपानामधिकबलवतस्स्याद्दशाघाततोन्येति जातकपद्धतौ श्रीपत्युक्तेर्लग्नात् द्वादशस्थस्य सूर्यचंद्रमसोरन्यतरस्य बलिष्ठस्यादौ दशाफलदा भवेन्न वेति संदेहः कस्यापि मनसि न जागर्तितराम् ॥
Shripati's rule: the strongest of lagna, Sun and Moon gives the first period, wherever it stands. No one doubts it.
तद्वद्यत्किञ्चिद्भावस्थो ग्रहोल्पांशः शुभमशुभस्वफलं दातुं समर्थ एव॥
Least degrees: a planet with few degrees can give its own good or bad results from any house.