Hayanaratna · by Balabhadra
Chapter 7 · Finding the Dashas
दशानयनाधिकाराध्यायः
वर्षप्रवेशसमये कालहोरेशस्य सबलत्वे कालहोरादशा ॥ ४ ॥ वर्षप्रवेशलग्नहद्देश्वरस्य सबलत्वे हद्दा दशा ॥ ५ ॥ चंद्रस्य सबलत्वे निसर्गदशा ॥ ६ ॥
At the time of the year entry, the kalahora (planet ruling the hour) lord may be strong. Then use the kalahora dasha (planet period). (4) When the hadda (a planet's own small part of a sign) lord of the year-entry lagna (rising sign) is strong, use the hadda dasha. (5) When the Moon is strong, use the natural dasha. (6)
Simple meaning: Choosing a period system (4-6): hour lord strong, hadda lord strong, or Moon strong.
वर्षे जन्मराशीश्वरस्य सबलत्वे गौरीमता दशा मुद्दाख्या ॥ ७ ॥ वर्षे चंद्रराशीश्वरस्य सबलत्वे बलराममता दशा विधेया ॥ ८ ॥ सर्वेषाम्बलसाम्ये बलापेक्षया रहिता तसीरदशा कर्तव्या ॥ ९ ॥ लग्नोपरि सर्वग्रहाणां दृष्ट्यभावे भावदशा कर्तव्येति तत्त्वम् ॥ १० ॥
Choosing a period system (7-10): birth sign lord, Moon sign lord, equal strength, or no planet seeing the lagna.
अथ दशाफले विशेषः ॥ तत्र पूर्वम्पूर्णबलस्य रवेर्दशाफले गजाश्वलाभादिफलमुक्तम् ॥ पूर्णबलरविदशा तु सर्वेषां वर्षप्रवेशे कदापि न संभवतीति नियमो न दृश्यते ॥ परन्तु तेषां गजाश्वलाभादिकन्न दृश्यते तत्र किं कारणमिति चेदुच्यते ॥
Full-strength Sun's period: why few people gain elephants and horses, though the rule promises it.
जन्मनि जातकोक्तमार्गेण रविश्चेत्पूर्णबलो वर्षेपि पूर्णबलः शुभस्थानगश्च भवति तदा गजाश्वलाभादिकमवश्यं वर्षे वक्तव्यम् ॥ जन्महीने बले सूर्ये वर्षे पूर्णवीर्येपिगजाश्वादिलाभादिकं स्वप्ने वक्तव्यम् ॥
Sun's period results: the Sun strong at birth and in the year brings big gains. Weak at birth, the gains are seen only in dreams.