Hayanaratna · by Balabhadra
Chapter 7 · Finding the Dashas
दशानयनाधिकाराध्यायः
अथान्तर्दशानयनं वर्षतन्त्रे ॥दशामानं समामानं प्रकल्प्योक्तेन वर्त्मना ॥अंतर्द्दशा साधनीया प्राक्पात्यांशवशेन तु ॥आदावंतर्द्दशापाकपतेस्तत्क्रमतोखिलाः ।
Take the length of the dasha (planet period) as the length of the year. By the method told, work out the antardasha (sub-period). Do it by the patyamsha (degrees left after subtracting) found before. The dasha lord's own antardasha comes first. All the others follow in that order.
Simple meaning: Finding sub-periods: treat the period like a year and divide it the same way; the period lord's own sub-period comes first.
अयमर्थः ॥ पूर्वं हीनांशवशेन पात्यांशाश्चनिष्पादितास्तत्र पात्यांशयोगेन वर्षस्थानाभिषिक्तं दशामानं भजेल्लब्धमन्तर्द्दशानयने ध्रुवको दिनादिकस्तेन ग्रहपात्यांशाः पूर्ववद्गोमूत्रिकया गुणिताः षष्ट्योपर्युपरियुता ग्रहस्यान्तर्द्दशामानं दिनादिकं भवेत् ॥
Finding a sub-period: divide the period by the total of the leftover degrees; multiply each planet's leftover degrees by that figure.
तत्र प्रथमतो महादशास्वामिन एवांतर्द्दशा । ततो लिखितक्रमेण तद्ग्रिमांतर्द्दशा ततस्सर्वाधिकांशग्रहानंतरम्पुनरपि हीनांशक्रमेण महादशास्वामिपृष्ठपर्यन्तमन्तर्दशा ज्ञेया ॥
Order of sub-periods: the period lord first, then the others in order of degrees, coming round to the one before the lord.
अत्रोदाहरणम् ॥ तत्र शुक्रमहादशादिनाद्या ९२ । ४२ । १७ इदमेव दशामानं वर्षस्थानाभिषिक्तं कल्पितम् ॥ तत्सर्वपात्यांशयोगेन । अनेन २८ । १६ । ३१ प्राग्वद्युक्तं लब्धो दिनादिस्सर्वग्रहाणामंतर्दशा ध्रुवकः ३ । १२ । २८ । ३० अनेन शुक्रस्य पात्यांशाः २७ । ७ गुणिताः षष्ट्योपर्युपरियुताः जाता दिनाद्या शुक्रदशायां शुक्रांतर्दशा २२ । ५१ । १३ । २६ एवं सर्वेषामप्यन्तर्दशास्साधनीयाः ॥
Sub-period example: Venus's period of 92 days 42 ghatikas gives Venus's own sub-period of about 22 days 51 ghatikas.