Vishnudharmottara Purana (Jyotisha Selections) · by Vyasa
Chapter 22 · The Jataka Chapter
जातकाध्यायः
तत्र गर्भः प्रथममासि कललं भवति द्वितीये घनीभवति ।।
In the full Vishnudharmottara Purana this is Khanda 2, chapter 167, prose part 30.
There, in the first month, the embryo is a kalala (a first jelly-like form). In the second month, it thickens.
Simple meaning: In the first month the embryo is a soft jelly-like form. In the second month it thickens.
तृतीयेऽवयवाश्चास्य भवन्ति चतुर्थेऽस्थीनि पञ्चमे त्वक् षष्ठे बलं सप्तमे लोमानि अष्टमे क्षुद् नवमे उद्वेगः दशमे प्रसवः तत्रास्य मासक्रमेण शुक्राङ्गारकबृहस्पतिदिवाकरचन्द्रसौरबुधा वा ।।
The embryo grows month by month: limbs, bones, skin, strength, hair, hunger, restlessness, then birth in the tenth month.
लग्नाधिपतिचन्द्रार्काः पतयः आधानकाले यः कलुषो भवति स स्वमासे गर्भपीडां करोति योऽन्यग्रहविजितः केतूल्काभिहतः स स्वमासे गर्भपाताय भवति जन्मलग्नपञ्चमषष्ठसप्तमाष्टमनवमेषु चन्द्रमाः पापयुतः सौम्यदृग्योगवर्जितो वा तस्य मरणाय भवति लग्नचतुर्थसप्तमाष्टमेषु पापद्वयमध्यगतश्च षष्ठाष्टमयोः पापदृष्टोऽपि षष्ठाष्टमैरन्यतमे बुधजीवशुक्राणामन्यतमो वक्रिणा पापेन दृष्टः सौम्यग्रहेण चादृष्टो मरणाय लग्नपश्चान्ते पापयुतश्च यत्र तत्र राशौ नवमोंशः पापसन्ध्यायां चन्द्रहोरा च चत्वार्यपि च केन्द्राणि यमार्कचन्द्रभौमसौरावेतरे भचक्रपूर्वार्धे पापाः पश्चार्धे सौम्याः कर्कटवृश्चिकान्यतमोदये च केन्द्राष्टमेनेति ।
Rules for dangers in early childhood, counting life years, how life may end, and the good places of each planet.
शुक्राद्द्विपञ्चषण्णवदशैकादशेषु सौरात्त्रिपञ्चसप्तदशैकादशेषु लग्नात्प्रथमद्विचतुःपञ्चषट्सप्तदशैकादशेषु जीवात्पञ्चाष्टनवमैकादशेषु स्वात्प्रथमद्विचतुःपंचाष्टनवमैकादशेषु सौरात्त्रिचतुःपञ्चाष्टनवमैकादशेषु लग्नात्प्रथमद्वित्रिचतुःपञ्चाष्टनवमैकादशेषु सौरोऽर्कात्प्रथमद्विचतुःसप्ताष्टदशमैकादशेषु चन्द्राद्द्विषडेकादशेषु भौमात्त्रिपञ्चषड्दशैकादशेषु बुधात्षष्ठनवदशैकादशद्वादशेषु जीवात्पञ्चषष्ठैकादशद्वादशेषु शुक्रात्षडेकादशद्वादशेषु स्वात्त्रिपञ्चषडेकादशेषु लग्नात्प्रथमद्विचतुर्दशमेषु येषु नोक्तः शुभस्तेषु सर्व एवाशुभो भवति ।
More lists of good places for each planet. The results of the planet period do not fail.