Vishnudharmottara Purana (Jyotisha Selections) · by Vyasa
Chapter 22 · The Jataka Chapter
जातकाध्यायः
तत्काले च ग्रहाद्ग्रहो द्वितीयतृतीयतामेति मध्यश्चारितामरिरमित्रताम् ।।
In the full Vishnudharmottara Purana this is Khanda 2, chapter 167, prose part 29.
At that time, one planet counts from another as second or third. A neutral planet then takes on enmity. An enemy takes on unfriendliness. (Our text is unclear here: the line is very short, and the rule for this birth-time change is not spelled out.)
Simple meaning: At the time of birth, planets can take on a temporary closer or colder relation to one another.
तत्र गर्भः प्रथममासि कललं भवति द्वितीये घनीभवति ।।
In the first month the embryo is a soft jelly-like form. In the second month it thickens.
तृतीयेऽवयवाश्चास्य भवन्ति चतुर्थेऽस्थीनि पञ्चमे त्वक् षष्ठे बलं सप्तमे लोमानि अष्टमे क्षुद् नवमे उद्वेगः दशमे प्रसवः तत्रास्य मासक्रमेण शुक्राङ्गारकबृहस्पतिदिवाकरचन्द्रसौरबुधा वा ।।
The embryo grows month by month: limbs, bones, skin, strength, hair, hunger, restlessness, then birth in the tenth month.
लग्नाधिपतिचन्द्रार्काः पतयः आधानकाले यः कलुषो भवति स स्वमासे गर्भपीडां करोति योऽन्यग्रहविजितः केतूल्काभिहतः स स्वमासे गर्भपाताय भवति जन्मलग्नपञ्चमषष्ठसप्तमाष्टमनवमेषु चन्द्रमाः पापयुतः सौम्यदृग्योगवर्जितो वा तस्य मरणाय भवति लग्नचतुर्थसप्तमाष्टमेषु पापद्वयमध्यगतश्च षष्ठाष्टमयोः पापदृष्टोऽपि षष्ठाष्टमैरन्यतमे बुधजीवशुक्राणामन्यतमो वक्रिणा पापेन दृष्टः सौम्यग्रहेण चादृष्टो मरणाय लग्नपश्चान्ते पापयुतश्च यत्र तत्र राशौ नवमोंशः पापसन्ध्यायां चन्द्रहोरा च चत्वार्यपि च केन्द्राणि यमार्कचन्द्रभौमसौरावेतरे भचक्रपूर्वार्धे पापाः पश्चार्धे सौम्याः कर्कटवृश्चिकान्यतमोदये च केन्द्राष्टमेनेति ।
Rules for dangers in early childhood, counting life years, how life may end, and the good places of each planet.