Vishnudharmottara Purana (Jyotisha Selections) · by Vyasa
Chapter 22 · The Jataka Chapter
जातकाध्यायः
भौमो नवरश्मिः ह्रस्वः पिङ्गाक्षः कपिलः पैत्तिको मज्जासारो रक्तगौरः पापः पुरुषग्रहः क्षत्रियः कालस्य सत्त्वं सेनानीः दक्षिणाभिमुखो वक्रे दक्षिणस्यां दिशि कृष्णपक्षे रात्रौ च बलवानिति ।।
In the full Vishnudharmottara Purana this is Khanda 2, chapter 167, prose part 18.
Mars has nine rays. It is short, with tawny eyes and a brown colour. It has the pitta (the bile humour) nature. Marrow is its main substance. It is red-fair. It is a bad planet and a male planet. It is of the warrior class. It is the courage of Time. It is the army chief. It faces the south. It is strong when retrograde, in the south, in the dark half of the month and at night.
Simple meaning: Mars is short, red-fair and brown, a male army chief. It is strong in the south, at night and when retrograde.
बुधोष्टरश्मिर्मध्यमरूपः प्रमाणप्रकृतिः त्वक्सारः दूर्वाश्यामः सौम्यो न्यग्रोधसमेतप्रकृतिर्भवति नपुंसकः शूद्रः कालस्य वाक् युवराजः उदङ्मुखः उत्तरस्यां दिशि सर्वकालं वक्रे शुक्लपक्षे च बलवानिति ।।
Mercury is green and middle-sized, the speech of Time and the heir to the throne. It is strong in the north.
सौरः सप्तरश्मिः कृष्णो दीर्घः वातप्रकृतिः पापो नपुंसकः कालस्य दुःखः प्रेष्यः पार्थिवाभिमुखः तस्यामेव दिशि रात्रौ वक्रे शुक्लपक्षे च बलवानिति ।।
Saturn is black and tall, the servant of Time. It is strong at night, when retrograde and in the bright half.
सर्वे च ग्रहाः स्वसंवत्सरे स्वायने स्वर्तौ स्वमासे स्वपक्षे स्वदिने स्वहोरायां स्ववर्गे बलवन्तो भवन्ति वर्गोत्तमस्थः स्वोच्चस्थः स्वत्रिकोणस्थश्च ग्रहयुद्धे च जयी रश्मिवपुर्धरश्च बलवान्भवति ।।
Planets are strong in their own time, their own divisions, their high point or their own sign part.