Atharvaveda Parishishta (Jyotisha Selections) · by Vedic sages (Atharvaveda)
Chapter 25 · Great Portents
महाद्भुतानि
कर्मसंकरं यज्ञसंकरं व्यवहारसंकरं च यत्र च धर्मोऽधर्मेण पीड्यते तदद्भुतम्विद्यात्
In the full Atharvaveda Parishishta this is Parishishta 72, 4.2.
A mixing of rites, of sacrifices and of dealings; and where right conduct is hurt by wrong conduct: know that a portent.
Simple meaning: Mixed-up rites and dealings, and right conduct hurt by wrong, are portents.
तेषामज्ञातप्रायश्चित्तं यदज्ञातमनाम्नातमिति मध्ये जुहुयात्पुरुषसूक्तं च तेष्वकृतप्रायश्चित्तेषु महाद्भुतानि प्रादुर्भवन्ति ॥
When no amends are made for such mixing, great portents tend to arise.
दिव्यानीत्याचक्षते देवगृहेष्वथ हसन्ति गायन्ति रुदन्ति क्रोशन्ति प्रस्विद्यन्ति प्रधूमायन्ति प्रज्वलन्ति प्रकम्पन्त्युन्मीलयन्ति निमीलयन्ति लोहितं स्रवन्ति परिवर्तयन्ति वा
Images in temples laughing, weeping, sweating, smoking or dripping blood are called divine portents.
तेषां प्रादुर्भावगमनेष्वन्यराजागमनं वा विद्यादुदग्रं वा [ङ्गेगम्] अवृष्टिशस्त्रभयं बुभुक्षामारं जानपदममात्यानां राज्ञो विनाशं
Such signs may bring a new king, drought, weapons, hunger and ruin for ministers and the king.