Atharvaveda Parishishta (Jyotisha Selections) · by Vedic sages (Atharvaveda)
Chapter 1 · Nakshatra Kalpa
नक्स्हत्रकल्प
अथ नक्षत्रकल्पं व्याख्यास्यामः ॥कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसू पुष्याश्लेषा मघा⟨ः⟩ फाल्गुनी फल्गुन्यौ हस्त⟨श्⟩ चित्रा स्वाति⟨र्⟩ विशाखे अनुराधा ज्येष्ठा मूल⟨ं⟩ पूर्वाषाढा उत्तराषाढाभिजिच्छ्रवणः श्रविष्ठा शतभिषः पूर्वप्रोष्ठपदोत्तरप्रोष्ठपदौ रेवत्यश्वयुजौ भरण्यः ॥
In the full Atharvaveda Parishishta this is Parishishta 1, 1.1-2.
Now we shall explain the rules for each nakshatra (star), the Nakshatra Kalpa. Krittika, Rohini, Mrigashira, Ardra, the two Punarvasus, Pushya, Ashlesha, Magha. Phalguni and the two Phalgunis, Hasta, Chitra, Svati, the two Vishakhas, Anuradha, Jyeshtha, Mula. Purvashadha, Uttarashadha, Abhijit, Shravana, Shravishtha (Dhanishtha), Shatabhisha. The earlier and later Proshthapadas (Bhadrapada), Revati, the two Ashvayujs (Ashvini), the Bharanis.
Simple meaning: The text opens by naming 28 nakshatras in order, from Krittika to Bharani, with Abhijit among them.
षट्कृत्तिका एका रोहिणी तिस्रो मृगशिर एकार्द्रा द्वे पुनर्वसू एकः पुष्यः षडाश्लेषाः षण्मघाः चतस्रः फल्गुन्यः पञ्च हस्त एका चित्रा एका स्वातिर्द्वे विशाखे चतस्रोऽनुराधा एका ज्येष्ठा सप्त मूलमष्टावषाढा एकोऽभिजित्तिस्रः श्रवणः पञ्च श्रविष्ठा एका शतभिषा चतस्रः प्रोष्ठपदौ एका रेवती द्वे अश्वयुजौ तिस्रो भरण्यः ॥
Star counts: Krittika 6, Rohini 1, Mrigashira 3, and so on to Bharani 3; 79 stars over 25 names.
इति संख्यापरिमितं ब्रह्म ॥
This closes the section that counts the stars of each nakshatra.
आग्निवेश्यः कृत्तिका रोहिण्यानुरोहिणी श्वेतायिनं मृगशिर आर्द्रा बार्हद्गवी वात्स्यायनौ पुनर्वसू भारद्वाजः पुष्यो जातूकर्ण्योऽश्लेषा वैयाघ्रपद्यो मघा⟨ः⟩ पाराशर्यौ पूर्वे फाल्गुन्यावौपशिव्या उत्तरे माण्डव्यायनो हस्तश्चित्रा गौतमी कौण्डिन्यायनः स्वातिः कापिले विशाखे मैत्रेय्यनुराधा कौशिकी ज्येष्ठा कौत्सं मूलं हारितयज्ञी पूर्वाषाढा काश्यप्युत्तरा शौनकोऽभिजिदात्रेयः श्रवणो गार्ग्यः श्रविष्ठा दाक्षायणी शतभिषग्वात्स्यायन्यौ पूर्वे प्रोष्ठपदे आगस्त्यावुत्तरे शाङ्खायनी रेवती कात्यायन्⟨य्⟩आवश्वयुजौ मातृभ्यो भरण्यः वसिष्ठः कश्यप आदित्यश्चन्द्रमा ब्रह्माणो नक्षत्रेषु ॥
Each of the 28 nakshatras, Abhijit included, gets a family line, such as Agniveshya for Krittika and Bharadvaja for Pushya.